________________
णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे
[सू० १३५
हस्ताः, तालाः कंसिकाः, वंशाः वेणवः, इह च तन्न्यादयः कलादिभिः शब्दधमैर्विशेषिताः शब्दकारणत्वात् , ते च ते ककुदाः प्रधानाः स्वरूपेण, अभिरामाश्च मनोजा इति कर्मधारयोऽतस्तेषु, रमन्ति रतिं कुर्वन्ति इति योगः, सहेसु रजमाणा रमंति सोइंदियवसट्ट चि शब्देषु मनोज्ञध्वनिषु श्रोतोविषयेषु रज्यमाना रागवन्तः श्रोत्रेन्द्रियस्य क्शेन बलेन ऋताः पीडिता इति विग्रहः, ये शब्देषु रज्यन्ते ते तत्कारणेषु तन्न्यादिषु श्रोत्रेन्द्रियवशाद रमन्ते इति वाक्यार्थः, अनेन च कार्यतः श्रोत्रेन्द्रियस्वरूपमुक्तम् ।१। सोइंदियदुईतत्तणस्स अह एत्तिमो हवइ दोसो। दीवियरुयम(रूवम-हे १)सईतो वह-बंध तित्तिरो पत्तो ॥२॥ कण्ठ्या , नवरं शाकुनिकपुरुषसम्बन्धी पञ्जरस्थतित्तिरिः दीपिक (तित्तिर दीपक-जे.) उच्यते, तस्य यो रवः तमसहमानः स्वनिलयान्निगतो वधं मरणं बन्धं च पञ्जरबन्धन प्राप्त इति । थण-जघण-वयण-कर-चरण-नयण-गम्वियविलासियगईसु ति स्तनादिषु तथा गर्वितानां सौभाग्यमानवतीनां स्त्रीणां या विलसिता जातविलासाः सविकारा गतयः तासु चेत्यर्थः । रुवेसु रजमागा रमंति चक्खिदियवसट्टा प्रतीतमेव । चक्खिदियदुईतत्तगस्स भह एत्तिओ हवइ दोसो। जं जलणम्मि जलंते पडइ पयंगो अबुद्धीमो॥४॥ कण्ठ्या । भगरु(भगलु-खं० लो० जे०, अगुरु-हे०)वरपवरधूवणउउय(मोउय-हे. खं०, उमओय-जे०, उउ-लों०)मल्लाणुलेवणविहीसु। गंधेसु रजमागा रमंति घाणिदियवसट्टा ॥५॥ कण्ठया, नवरम् अगरु(मगुरु-हे० जे० लो०)वरः कृष्णागरुः (गुरुः-खं० जे० लो०) प्रवरधूपनानि गन्धयुक्त्य(त्यो-खं०)प्रदेशविरचिता धूपविशेषाः, उउय (मोउयहे. जे०) त्ति ऋतौ ऋतौ यान्युचितानि तानि आर्तवानि माल्यानि जात्यादिकुसुमानि अनुलेपनानि च श्रीखण्ड-कुङ्कुमादीनि, विधय एतत्यकारा इति । घाणिदियदुइंतत्तणस्स अह एत्तिओ हवह (भवह जे० हे.) दोसो। जं मोसहिगंधेण वि बिलामो निद्धावई उरगो ॥ ६॥ कण्ठ्या । तित्तकडुकसायंबिलमहुरबहुखज्जपिजलेजोसु। (कसायंवमहुरबहुखज्जपेजलेस्लेसु-लो०)। आसायम्मि उ गिद्धा रमंति जिभिदियवसट्टा ॥७॥पूर्ववत्, नवरम् तिक्तानि निम्बवटकादीनि, कटुकानि शृङ्गबेरादीनि, कषायाणि मुद्गादीनि, अम्लानि तक्रादिसंस्कृतानि, मधुरानि खण्डादीनि, खायानि खजूर(कूर-खं० हे. लो०)मोदकादीनि, पेयानि जल-मद्य-दुग्धादीनि, लेह्यानि मधु-शिखरिणीप्रभृतीनि, भास्वादे रसे। जिभिदियदुइंतत्तणस्स मह एत्तिओ हवइ (भवइ-हे.) दोसो। जंगलमुक्खित्तो फुरइ थलविरलिओ (विरेलिओजे० लों० हे.) मच्छो ॥८॥ कण्ठ्या, नवरं गलं वडिशं तत्र लमः कण्ठे विद्धत्वात् उक्षिप्तो जलादुद्धतः, ततः कर्मधारयः, स्फुरति स्पन्दते स्थले भूतले विरल्लिओ (विरेल्लिमो जे०) चि प्रसारितः क्षिप्त इत्यर्थः, यःस तथा॥ उउभयमाणसुहेसुय सरिभवहिययमणनिव्वुइकरेसु। फासेसु रजमाणा रमंति फार्सिदियवसहा ॥९॥ कण्ठ्या, नवरं ऋतुषु हेमन्तादिषु भज्यमानानि सेव्यमानानि यानि सुखानि सुखकराणि तानि तथा तेषु, सविभवानि समृद्धियुक्तानि महाधनानि इत्यर्थः, हितकानि प्रकृत्यनुकूलानि सविभवानां वा श्रीमतां हितकानि यानि तानि तया, मनसो निर्वृतिकराणि यानि तानि तथा, ततः पदत्रयस्य तवयस्य वा कर्मधारयः, अतस्तेषु स्त्रक्-चन्दना-ऽङ्गना-बसन-तूल्यादिषु द्रव्येष्विति गम्यते । फासिंदियदुईतत्तणस्स मह एत्तिमो हवइ दोसो। जं खणइ मत्थय कुंजरस्स लोहंकुसो तिक्खो ॥१०॥ भावना प्रतीतैव । अथेन्द्रियाणां संवरे गुणमाहकलरिभियमहुरततितलतालवंसककुहाभिरामेसु। सद्देसु जे न गिद्धा वसट्टमरणं न ते मरए ॥११॥ पूर्ववत् , नवरमिह तन्यादयः शब्दकारणवेनोपचाराच्छब्दा एव विवक्षिताः, अतः शब्देश्वित्येतस्य विशेषगतया व्याख्येयाः, तथा वशेन इन्द्रियपारतत्र्येण ऋताः पीडिताः वशार्ताः, वशं वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org