Page #1
--------------------------------------------------------------------------
________________ 1.111 听听听听听听听听听听听听听听听听听听听听听听听听 // श्रीजिनाय नमः॥ (श्रीधर्मदासगणीकृत) // प्रसन्नचंद्रराजर्षिचरित्रम् // 00000000 55 5 5 55 55 5 मा.श्री. केन्ठानमाणर सरि शाम मंदिर श्री महावीर जैन आगषणा केन्द्र, कोषा मुद्रयित्वा प्रकाशकः-पण्डित हीरालाल हंसराज-( जामनगरवाळा ) ___ संवत् 1990 किंमत रु. 0-12-0 सने 1934 प्र जज 8 जैनभास्करोदय मुद्रणालय-जामनगर 05555555 P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
Page #2
--------------------------------------------------------------------------
________________ चरित्रम् // 1 // zn. ॥श्री जिनाय नमः // // अथ श्रीप्रसन्नचंद्रराजर्षिचरित्रम् प्रारभ्यते.॥ (गद्यबद्ध) - छपावी प्रसिद्ध करनार:पंडित श्रावक हीरालाल हंसराज. जामनगर............. Serving JinShasano) 050396 gyanmandir@kobatirth.org celece@@@eeCES DaseeeeeBBBBBE पोतनपुरे नगरे प्रसन्नचंद्रो राजा बभूव, सोऽतीवधार्मिक सत्यवादी न्यायधमैकनिपुणः, स एकदा संध्यायां गवाक्षस्थितो नगरस्वरूपं विलोकयति, तस्मिन्नवसरे नानावर्णान्यभ्राणि जातानि, संध्यारागः संजातः, तं दृष्ट्वाऽतीवहर्षितो राजा मुहुर्मुहुविलोकयति, तत्संध्यास्वरूपं क्षणिकं दृष्टनष्टमिव नष्टं, राज्ञा चिंतितंक गतं संध्यारागसौंदर्य ? अनित्यता पुद्गलानां, संध्याराग इव देहोऽप्यनित्यः, संसारे प्राणिनां किमपि सुख नास्ति, यदुक्तं-दुःखं स्त्रीकुक्षिमध्ये प्रथममिह भवे गर्भवासे नराणां / बालत्वे चापि दुःखं मललुलितवपुः स्त्रीपयःपानमिदं // तारुण्ये चापि दुःख बायो केबाम्ममागर हरि शाम मंदिर श्री पदाचार अन आगधवा पन्द्र, डोचा P. P i natnasur M.S. Jun Gun Aaradh
Page #3
--------------------------------------------------------------------------
________________ प्रसन्न // 2 // भवति विरहजं वृद्धभावोऽप्यसारः। संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किंचित् // 1 // एवं वैराग्यरंगेण रंजितमना राजा चिंतयति संसारे वैराग्योपमं सुखं नास्ति. यदुक्तं-भोगे रोगभयं सुखे क्षयभयं वित्तेऽग्निभूभृद्भयं। दास्येस्वामिभय गुणेखलभयं वंशे कुयोषिद्यमाने म्लानिभयं जये रिपुभयं काये कृतांताद्यं / सर्व नाम भयं. भवेच्च भविनां वैराग्यमेवाभयं // 1 // एवं वैराग्यपरायणो राजा स्वं पुत्रं राज्ये स्थापयित्वा स्वयं दीक्षां जग्राह. तत्काल-- कृतलोचो भूमौ विहरन् राजगृहोद्याने कायोत्सर्गमुद्रया तस्थौ. तस्मिन्नवसरे श्रीमान् वर्धमानस्वामी ग्रामाद्यामं विहरन् चतुर्दशसहस्रसाधुपरिकरितः सुरनिर्मितकांचनकमलोपरि चरणौ धारयन् राजगृहे गुणशैले चैत्ये समवासार्षीत्, सुरैरागत्य समवसरणं निर्मितं. वनपालका झटिति नगरे समेत्य श्रेणिकं विज्ञपयामासुः, स्वामिन् भवदीयमनोवल्लभाः / / श्रीवर्धमानस्वामिनो वने समवसृताः. एतद्वनपालकवचनं श्रुत्वा राजाऽतीव हृष्टः कोटिप्रमितं धनं तस्मै दौ, स्वर्णजिहां च ददौ. तद्नंतरं राजा महताडंबरेण जिनवंदनार्थ चलितः, तस्य राज्ञः सैन्यमुखे सुमुखदुर्मुखनामानौ द्वौ दंडधरौ चलितो. तदनु ताभ्यां प्रसन्नचद्रो मुनिर्वने कायोत्सर्गमुद्रया स्थितो दृष्टः, सुमुखेनोक्तं धन्योऽयं मुनिः, येनैतादृशी महती राज्यलक्ष्मीस्त्यक्ता, संयमश्रीश्च गृहीता, एतस्य नाम्नापि पापं याति, किं पुनः सेवनेन ? तदा दुर्मुखेनोक्तं अध-| न्योऽयं महापापोऽयं मुनिः किमिमं पुनः पुनर्वर्णयसि ? एतेन समः कोऽपि पापभाग नास्ति. सुमुखेन मनसि चिंतित अहो दुर्जनस्वभावोऽयं यद् गुणेषु दोषमेव गृणाति यदुक्तं-आक्रांतेव महोपलेन मुनिना शप्तेव दुर्वाससा। सातत्यं बत मुद्रितेव जतुना नीतेव मूछी विषैः // बढेवाऽतनुरज्जुभिः परगुणान् वक्तुं न शक्ता सती। जिहा लोहश-m BORaeeseDEBEDEE PEECGunratnasuriM.S. Jun Gun Aare Trust
Page #4
--------------------------------------------------------------------------
________________ प्रसन्न // 3 // |लाकया खलमूखे विद्वेव संलक्ष्यते // 1 // तथा चोक्तं-आर्योऽपि दोषान् खलवत्परेषां / ववतुं हि जानाति परं न ii वक्ति // किं काकवतीव्रतराननोऽपि ! कीरः करोत्यस्थिविघटनानि // 2 // ततः सुमुखेनोक्तं भो दुर्मुख किमर्थमेनं मुनीश्वरं महात्मानं निंदसि ? तदा दुर्मुखेनोक्तं भो एतस्य नामापि न गृहीतव्यं. यदयं पंचवार्षिकं बालं राज्ये स्थापयित्वा निर्गतः, परंत्वेतद्वैरिभिमिलित्वा एतन्नगरमूल्लूसितं, एतदीयाः पौरजनाः कंदति, विलापं कुर्वति, महाद्धं / जायते, अधुना ते एतदीयं बालकं निहत्व राज्यं गृहीष्यंति, एतत्सर्व पापमेतच्छिरसि, इति श्रुत्वा ध्यानस्थितेन प्रसनचंद्रराजार्षिणा चिंतितमहो मयि स्थितेऽपि मदीयाः शत्रवो यदि बालकं निहत्य राज्यं गृह्णति तर्येषा मानहानि-Iml ममैवेति स ध्यानाचलितः, मनसैव वैरिभिः सार्धं तेन युद्धं कर्तुमारब्धं. अतिवरौद्ररूपतामापन्नस्तन्मना रौद्रं ध्यान Ko ध्यायति, मनसैव वैरिणं निहंति, हता इमे इति वुध्ध्या समीचीनं जातमिति मुखेनापि जल्पते, अधुनान्यं मारयाकामीति पुनरपि मनसा युद्धाय प्रवर्तते. एतस्मिन्नवसरे श्रेणिकेन हस्तिस्कंधाधिस्ढेन प्रसन्नचंद्रो दृष्टः, अहो धन्योऽयं का राजर्षियं एकाग्रमनसा ध्यान करोति. श्रेणिकोऽपि गजादुत्तीर्य त्रिप्रदक्षिणीकृत्य पुनः पुनर्वदति स्तौति च. तं वंदित्वा मनसा स्तुवन् गजमारुह्य स्वामिसमीपमागतः, समवसरणं च दृष्ट्वा पंचाभिगमनविधिना जिनं वदित्वा करकमलो मूकुलीकृत्यैवं स्तौतिस्म. यदुक्तं-अद्याऽभवत्सफलता नयनद्वयस्य / देव त्वदीयचरणांबुजवीक्षणेन // अद्य त्रिलोकतिलक प्रतिभासते मे / संसारवारिधिरयं चुलुकप्रमाणः॥१॥ दिठे तुह मूहकमले / तिन्निवि गट्ठाई निरवसेसाई॥ b. दारिदं दोहग्गं / जम्मंतरसंचियं पावं // 2 // इत्याद्यष्टाधिकशतसंख्यैः काव्यैजिन स्तुत्वा यथास्थानमुपविष्टः, प्रभुणा BREEDBDBES59655 PROGuntatasur MS Jun Gun Aara Trust
Page #5
--------------------------------------------------------------------------
________________ क्लेशनाशिनी धर्मदेशनांप्रारब्धा देशनांते श्रेणिकः स्वामिनं पृच्छतिस्म.हे विभो यदवसरेमया प्रसन्नचंद्रो वंदितस्तद्वसरे प्रसन्न यदिस कालधर्मप्रामोति तदाकगच्छति? खामिनोक्तं तदासप्तमी नरकपृथ्वीं याति,श्रेणिकेनोक्तं स्वामिन्नधुना कगच्छति? चरि भगवतोक्तं षष्टीं नरकपृथ्वीं याति, पुनरपि श्रेणिकेन क्षणं विलंब्य पृष्टं अधुना क गच्छति ? भगवतोक्तं पंचमी // 4 // पृथ्वीं याति. पुनरपि क्षणं विलंब्य पृष्टं, भगवतोक्तंचतुर्थी पृथ्वीं याति. एवं तृतीयायां द्वितीयायां, प्रथमायां, पुनरपि श्रेणिकेन पृष्टं प्रभो अधुना क गच्छति ? भगवतोक्तं प्रथमदेवलोके, एवं द्वितीये तृतीये चतुर्थे पञ्चमे षष्टे सप्तमे अष्टमे नवमे दशमे एकादशे द्वादशे च, एवमनुक्रमेण नवसु ग्रैवेयकेषु यावत्पश्चानुत्तरविमानानि तावत्पर्यंतं श्रेणिकप्रश्नानंतरं भगवता तत्प्रश्नोत्तरं दत्त. अनया रीत्या सभायां प्रश्नोत्तरनिर्णये जायमाने, अस्मिन्नवसरेनभसि देवदुंदुभिनिनादं निशम्य श्रेणिकेन पृष्टं, प्रभो क्वायं दुंदुभिनिनादः ? प्रभुणोक्तं प्रसन्नचन्द्रराजर्षेः केवलज्ञानं समुत्पन्नं, तत्र सुरा दुंदुभिं ताडयंति, जयजयारावः संजायते, श्रेणिकेनोक्तं प्रभो किमेत कौतुकं मया न ज्ञातं किमिदं स्वरूपं ? स्वाDमिन कृपां विधायैतदुदंतं प्रसादीकुरु ? प्रभुणोक्तं श्रेणिक सर्वत्रापि मन एव प्रधान. यदुक्तं-मन एव मनुष्याणां ID कारणं बंधमोक्षयोः॥क्षणेन सप्तमी याति। जीवस्तंडुलमत्स्यवत् // 1 // तथा चोक्तं-मणमरणेंदियमरण / इन्दि अमरणे मरंति कम्माई // कम्ममरणेण मुख्खो तम्हा मणमारणं पवरं // 2 // ID भो श्रेणिक ! यदवसरे त्वया प्रसन्नचन्द्रोऽभिवैदितस्तदवसरे त्वदीयदंडधरदुर्मुखवचनं श्रुत्वा स ध्यानाचलितः, परसेनया युद्धं मनसैव करोतिस्म. त्वया त्वेवं ज्ञातं यन्महामुनीश्वरोऽयं एकाग्रमनसा ध्यानं ध्यायति, परंतु तेन तद ReceESSSSCCCENSE PW Gunratrasuri M.SI Jun Gun Aaraan
Page #6
--------------------------------------------------------------------------
________________ प्रसन्न // 5 // // वसरे वैरिभिः सार्द्ध मनसा महशुद्धमारब्धमभूत् ततो युद्धेन सप्तमनरकगमनयोग्या आयुःपुद्गला मेलिताः, नतु, निकाचितबंधेन बद्धाः, तदनु त्वं तं वंदित्वाऽत्रागतः, तेन तु मनसा युद्धे क्रियमाणे शस्त्रैः सर्वेऽपि शत्रवो निहता, शस्त्राणि सर्वाण्यपि च व्ययितानि, शत्रवोऽपि सर्वे क्षयं नीताः, एतदवसरे एकः शत्रुः सन्मुखं स्थितः, शस्त्रं तु पार्श्वे न स्थितं, तदा प्रसन्नचन्द्रेण रौद्रध्यानपरायणेन मनसि विचारित, शिरःस्थलोहमयेन पट्टेन वैरिणं ताडयामीति बुध्ध्या साक्षादेव हस्तौ तेन शिरसि न्यस्तो. तत्कालं कृतकेशलुचनं स्वं शिरो दृष्ट्वा स पश्चादलितः, अहो धिग्मयाऽज्ञानांधितधिया रौद्रध्यानपरायणेन किं चिंतितं? त्यक्तसावद्यसंगस्य गृहीतयोगस्य वांतभोगस्य ममैताद्धं न घटते. कस्यसुतः! कस्य प्रजाः! कस्यांतःपुरीअरे दुरात्मन् ! त्वया किं विचारितंसर्वमप्यनित्यं यदुक्तं-चला विभूतिःक्षणभंगि यौवनं। कृतांतदंतांतति जीवितं // तथाप्यवज्ञा परलोकसाधने / अहो कृणां विस्मयकारि चेष्टितं // 1 // एवं शुभध्यानमापन्नः प्रतिक्षणं निकृष्टनिकृष्टतराध्यवसायाबदानि कर्मदलिकान्युन्मूलयामध्स, शुभतराध्यवसायवशेन सप्तानामपि पृथिवीनां गमनायोग्यानि दलिकानि स्फेटयित्वोचं यावत्सर्वार्थसिद्धिविमानगमनयोग्य कर्मदलिक मेलयित्वोत्तरोत्तरपरिणामधारया परमपदयासियरमकारण क्षपाकणिशरणमाश्रित्य घातिकर्मक्षयं विधाय लत्कालमेवोज्ज्वलं केवलज्ञानमाप. अतस्तत्प्रभावात्सुरा एकीभूध मीतमानायुल्सावं कुवैतीति श्रुल्या श्रेणिका सविस्मात्य मुहर्मुः शिरोधुन्वन् पर्नु बंदिल्या PTANGunratnasunMs. . Jun Gun Aaradh
Page #7
--------------------------------------------------------------------------
________________ निस्संदेहो भूत्वा स्वथानं जगाम, प्रभुरप्यन्यत्र विजहार, प्रसन्नचन्द्रोऽपि बहुकालं यावत्केवलित्वेन भूमौ विहृत्य शि-D वपदमलंकृतवानित्युपनयः, अत एवात्मनः साक्षिकमाचरितं पुण्यपापं फलदायीति दृष्टांतः॥ चरित्रम् प्रसन्न // 6 // इति श्री प्रसन्नचन्द्रराजर्षि चरित्रम् समाप्तम. // समाप्तोऽयं ग्रंथः गुरुश्रीमच्चारित्रविजयसुप्रसादात् // eeeeeeeeeeee 燈燈燈燈管燈管经发烧 PPPMGunratnasun M.S. Jun Gun Aaradha
Page #8
--------------------------------------------------------------------------
________________ ΦώφώΦΦΦΦΦΦΦΦΦΦΦΦΦΦΦΦΦΦΦΦΦΦΦΦΦΦΦΦΦ - φφφφφφ κ // इति श्रीप्रसन्नचंद्रराजर्षिचरित्र समाप्तः // ΦΦΦΦΦΦΕ, -- ΕΞΩ πφφφφφφφφφφφφφφφφφφφφφφφφφφφφφφφφφφφφς PPA: Gunratnasun MS Jun Gun Aaradhak Trust