SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ प्रसन्न // 3 // |लाकया खलमूखे विद्वेव संलक्ष्यते // 1 // तथा चोक्तं-आर्योऽपि दोषान् खलवत्परेषां / ववतुं हि जानाति परं न ii वक्ति // किं काकवतीव्रतराननोऽपि ! कीरः करोत्यस्थिविघटनानि // 2 // ततः सुमुखेनोक्तं भो दुर्मुख किमर्थमेनं मुनीश्वरं महात्मानं निंदसि ? तदा दुर्मुखेनोक्तं भो एतस्य नामापि न गृहीतव्यं. यदयं पंचवार्षिकं बालं राज्ये स्थापयित्वा निर्गतः, परंत्वेतद्वैरिभिमिलित्वा एतन्नगरमूल्लूसितं, एतदीयाः पौरजनाः कंदति, विलापं कुर्वति, महाद्धं / जायते, अधुना ते एतदीयं बालकं निहत्व राज्यं गृहीष्यंति, एतत्सर्व पापमेतच्छिरसि, इति श्रुत्वा ध्यानस्थितेन प्रसनचंद्रराजार्षिणा चिंतितमहो मयि स्थितेऽपि मदीयाः शत्रवो यदि बालकं निहत्य राज्यं गृह्णति तर्येषा मानहानि-Iml ममैवेति स ध्यानाचलितः, मनसैव वैरिभिः सार्धं तेन युद्धं कर्तुमारब्धं. अतिवरौद्ररूपतामापन्नस्तन्मना रौद्रं ध्यान Ko ध्यायति, मनसैव वैरिणं निहंति, हता इमे इति वुध्ध्या समीचीनं जातमिति मुखेनापि जल्पते, अधुनान्यं मारयाकामीति पुनरपि मनसा युद्धाय प्रवर्तते. एतस्मिन्नवसरे श्रेणिकेन हस्तिस्कंधाधिस्ढेन प्रसन्नचंद्रो दृष्टः, अहो धन्योऽयं का राजर्षियं एकाग्रमनसा ध्यान करोति. श्रेणिकोऽपि गजादुत्तीर्य त्रिप्रदक्षिणीकृत्य पुनः पुनर्वदति स्तौति च. तं वंदित्वा मनसा स्तुवन् गजमारुह्य स्वामिसमीपमागतः, समवसरणं च दृष्ट्वा पंचाभिगमनविधिना जिनं वदित्वा करकमलो मूकुलीकृत्यैवं स्तौतिस्म. यदुक्तं-अद्याऽभवत्सफलता नयनद्वयस्य / देव त्वदीयचरणांबुजवीक्षणेन // अद्य त्रिलोकतिलक प्रतिभासते मे / संसारवारिधिरयं चुलुकप्रमाणः॥१॥ दिठे तुह मूहकमले / तिन्निवि गट्ठाई निरवसेसाई॥ b. दारिदं दोहग्गं / जम्मंतरसंचियं पावं // 2 // इत्याद्यष्टाधिकशतसंख्यैः काव्यैजिन स्तुत्वा यथास्थानमुपविष्टः, प्रभुणा BREEDBDBES59655 PROGuntatasur MS Jun Gun Aara Trust
SR No.036471
Book TitlePrasanna Chandra Rajarshi Charitram
Original Sutra AuthorN/A
AuthorDharmdas Gani
PublisherShravak Hiralal Hansraj
Publication Year1934
Total Pages8
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy