________________ नक्ता.|| तसुरपतिपूजितचरण! त्वद्भक्तिरेव तव शुश्रूषैव बलादतिशयान्मां मानतुंगाचार्य मुखरीकुरुते, अबः || चमुखी करोति, वाचालं विधत्ते इत्यर्थः. मां किंभृतं ? अल्पानि स्तोकानि श्रुतानि शास्त्राणि यस्येति विग्रहः. तथा अल्पशब्दोऽनाववाची, अल्पश्रुतमश्रुतमित्यनौठत्यं, अत एव श्रुवततां दृष्टशास्त्राणां विषां परिहासधाम हास्यास्पदं, अत्र दृष्टांतदृढता-किति सत्ये यत्को. किलः कलकंठो मधौ वसंते मधुरं मृदुकंठं विरोति कूजति, तदहं मन्ये चारुचूतकलिकानिक रैकहेतुरस्ति, चाय॑श्च ताः सकषायरसाशूतकलिकाः सहकारस्याविकस्वरमंजर्यश्च चारुचूतकलिकानां निकरः समूहः स चासावेकहेतुश्चेति कर्मधारयः. तिक्तसुरभिसहकारस्मेरमंजरीपुंज एवैककारणं वि. द्यत इत्यर्थः. यथाम्रमंजरीकृतन्नोजनः पुंस्कोकिलो मधुरस्वरो छवि मनोहरः स्यात. नक्तं च-न स्कूजंतु वटे वटे बत बकाः काका वराका अपि / कां कुर्वतु सदा निनादपटवस्ते पिप्पले पिप्पले // सोऽन्यः कोऽपि रसालपल्लवलवग्रासोल्लसत्पाटव-क्रीमत्कोकिलकंठकूजनकलालीलाविलासक्रमः // 1 // तथाहं स्तोकग्रंथोऽपि त्वद्भक्त्या स्तवं कुर्वाणः प्रवीणश्रेणी लब्धवर्णो भावीति वृत्त गावार्थः // 6 // || हेतुमुक्त्वा स्तवकरणे यो गुणस्तमाह