SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ कर्म प्रकृति : ॥२६॥ प यावन्नापि सङ्ख्येयैः, किन्त्वसङ्ख्येयैरेव - असङ्ख्येयलोकाकाशप्रदेशप्रमाणैरभ्यधिकाः प्राप्यन्ते । ततस्तेषां समुदायो द्वितीयस्य स्पर्ध. कस्य प्रथमा वर्गणा । 'तो बीयाई य पुव्वसम' ति-ततो द्वितीयस्पर्धकप्रथमवर्गणातः परतो द्वितीयादयो वर्गणाः पूर्वसमाः- पूर्वस्पर्ध| कस्येव वक्तव्या इत्यर्थः तथाहि - प्रथमवर्गणायाः परतो जीवप्रदेशानामेकेन वीर्याविभागेनाधिकानां समुदायो द्वितीया वर्गणा । | द्वाभ्यां वीर्याविभागाभ्यामधिकानां समुदायस्तृतीया वर्गणा । एवं तावद्वाच्यं यावत् श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणा वर्गणा भवन्ति । तासां च समुदायो द्वितीयं स्पर्धकम् । ततः परं पुनरप्येकेन वीर्याविभागेनाधिका जीवप्रदेशा न लभ्यन्ते, नापि द्वाभ्याम्, | नापि त्रिभिः, यावन्नापि सङ्ख्येयैः, किं त्वसङ्ख्येयैरेव - असङ्ख्येयलोकाकाशप्रदेशप्रमाणैरभ्यधिकाः प्राप्यन्ते । ततस्तेषां समुदायस्तृ| तीयस्य स्पर्धकस्य प्रथमा वर्गणा । तत एकैकवीर्याविभागवृद्धया द्वितीयादयो वर्गणास्तावद्वाच्या यावत्छ्रेण्यसङ्ख्येयभागगतप्रदेश| राशिप्रमाणा भवन्ति । तासां च समुदायस्तृतीयं स्पर्धकम् । एवमसङ्ख्येयानि स्पर्धकानि वाच्यानीति ।। ८ ।। ( उ० )- ताश्च कियत्य इति तन्निरूपणाय स्पर्धकप्ररूपणामाह — श्रेणिर्घनीकृतलोकस्यैकैकप्रदेश पङ्किरूपा तस्या असङ्खयेयतमे भागे यावन्त आकाशप्रदेशास्तावन्मात्रा उक्तस्वरूपा वर्गणा एक स्पर्द्धकं, स्पर्द्धन्त इवोत्तरोत्तरतुल्यवृद्धया वर्गणा अत्रेति व्युत्पतेः । उक्ता स्पर्द्धकप्ररूपणा । अथान्तरप्ररूपणामाह - इतः पूर्वोक्तस्पर्द्धकगतचरमवर्गणायाः परतो जीवप्रदेशा अनन्तरा न सन्ति -एकैक| वीर्याविभागवृद्धया निरन्तरं वर्द्धमाना न लभ्यन्ते इत्यर्थः, किन्तु यावदसङ्ख्येया लोकास्तावत्सान्तरा एव भवन्ति । न हि पूर्वो|तस्पर्द्धकगतचरमवर्गणायाः परतो जीवप्रदेशा एकद्वित्रादिवीर्याविभागैरधिकाः प्राप्यन्ते, नापि सङ्ख्येयैः, नाप्यसङ्ख्येयैः, किन्त्वसङ्ख्येयलोकाकाशप्रदेशप्रमाणेरेवाधिकाः प्राप्यन्त इति । ततस्तेषां समुदायो द्वितीयस्पर्द्धकस्य प्रथमा वर्गणा । 'तो' ति- ततो बन्धनकरणे योगप्ररू० ॥२६॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy