SearchBrowseAboutContactDonate
Page Preview
Page 959
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥१६॥ दीरणा RGAONGS रणा । सा च सादिरधुवा च, समयमात्रत्वात् । ततोऽन्या सर्वाप्यनुत्कृष्टा । सापि च सम्यक्त्वात्प्रतिपततो भवन्ती सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवे पूर्ववत् । तथा सप्तचत्वारिंशतः प्रकृतीनामनुत्कृष्टा प्रदेशोदीरगा त्रिधा। तद्यथा-अनादिर्बुवाऽध्रुवा च । तथाहि-पञ्चविधज्ञानावरणपञ्चविधान्तरायचतुर्विधदर्शनावरणरूपाणां चतुर्दशप्रकृतीनां क्षीणकषायस्य गुणितकाशस्य स्वस्त्रोदीरणापर्यवसाने उत्कृष्टा प्रदेशोदीरणा । सा च सादिरध्रुवा च । ततोऽन्या सर्वाप्यनुत्कृष्टा, सा चानादिः ध्रुवोदीरणत्वात् । ध्रुवावे | पूर्ववत् । तथा तैजससप्तकवर्णादिविंशतिस्थिरास्थिरशुभाशुभागुरुलघुनिर्मागनाम्नां त्रयस्त्रिंशत्संख्याकानां प्रकृतीनां गुणितकाशस्य सयोगिकेवलिनः चरमसमये उत्कृष्टा प्रदेशोदीरणा । सा च सादिरध्रुवा च । ततोऽन्यथा सर्वाऽप्यनुत्कृष्टा । सा चानादिः, ध्रुवोदीरणत्वात् । आसां ध्रुवाध्रुवे पूर्ववत् । 'सेसविगप्पा दुविह'त्ति-उक्तशेषा विकल्पा जघन्याजघन्योत्कृष्टरूपा द्विविधाः। तद्यथा-मादयोऽध्रुवाश्च । तथाहि-सर्वासामप्युक्तपकृतीनामतिसंक्लिष्टपरिणामे मिथ्यादृष्टौ जघन्या प्रदेशोदीरणा लभ्यते । अतिसंक्लिष्टपरिणामप्रच्यबने चाजघन्या । ततो द्वे अपि साद्यधुवे । उत्कृष्टा च प्रागेव भाविता । शेषागां चोक्तव्यतिरिक्तानां प्रकृतीनां दशोत्तरशतसंख्यानां सर्वेऽपि विकल्पा जघन्याजघन्योत्कृष्टानुत्कृष्टा द्विविधाः । तद्यथा-सादयोध्रुवाश्च । साधध्रुवता चाध्रुवोदोरगत्वादवसेया ॥८॥ (उ०)-उत्तरप्रकृतीनां साद्यादिप्ररूपणार्थमाह-मिथ्यात्वस्यानुत्कृष्टा प्रदेशोदीरणा चतुर्विधा-साधनादिध्रुवाधुवभेदात् । तथाहिअनन्तरसमये संयमसहितं सम्यक्त्वं प्रतिपित्सोमिथ्यात्वस्योत्कृष्टा प्रदेशोदीरणा, सा चैकमामयिकीति साद्यधुवा, ततोऽन्या सर्वाडप्यनुत्कृष्टा, साऽपि सम्यक्त्वात्प्रतिपततो भवन्ती सादिः, तत्स्थानमपातस्यानादिः, ध्रुवाध्रुवे प्राग्वत् । तथा सप्तचत्वारिंशतः प्रकृती- नामनुत्कृष्टा प्रदेशोदीरणा त्रिविधा-अनादिधुवाधुवभेदात् । तथाहि-ज्ञानावरणपश्चकान्तरायपश्चकदर्शनावरणचतुष्टयरूपचतुर्दशप्रकृतीनां ॥१६॥ |
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy