SearchBrowseAboutContactDonate
Page Preview
Page 956
Loading...
Download File
Download File
Page Text
________________ RSSOCIRROR (आउस्स)उक्कोसाणुक्कोसजहण्णाजहण्णविगप्पा सादिया अधुवा एव अधुवउदीरणत्तातो ॥८॥ ___(मलय०)-तदेवमुक्ताऽनुभागोदीरणा । सम्प्रति प्रदेशोदीरणाभिधानावसरः। तत्र च द्वावर्थाधिकारौ-तद्यथा-साधनादिप्ररूपणा | स्वामित्वप्ररूपणा च । साधनादिप्ररूपणापि च द्विधा-मूलप्रकृतिविषया उत्तर प्रकृतिविषया च । तत्र मूलपकृतिविषयां साद्यनादिप्ररूपणां चिकीर्षुराह–'पञ्चव्हं'ति । ज्ञानावरणदर्शनावरणनामगोत्रान्तरायरूपाणां पश्चानां मूलप्रकृतीनामनुत्कृष्टा प्रदेशे-प्रदेशविपया उदीरणा त्रिधा-त्रिप्रकारा । तद्यथा-अनादिर्धवाऽध्रुवा च । तथाहि-एतासामुत्कृष्टा प्रदेशोदीरणा गुणितकाशे स्वस्वोदीरणापर्यवसाने | लभ्यते । सा च सादिरध्रुवा च । ततोऽन्या सर्वाऽप्यनुत्कृष्टा । सा चानादिः, ध्रुवोदीरणत्वात् । ध्रुवाध्रुवे अभव्यभव्यापेक्षया । तथा|Y द्वयोर्वेदनीयमोहनीययोरनुत्कृष्टा प्रदेशोदीरणा चतुर्विधा । तद्यथा-सादिरनादिध्रवाऽध्रुवा च। तथाहि-वेदनीयस्योत्कृष्टा प्रदेशोदीरणा प्रमत्तसंयतस्याप्रमत्तभावाभिमुखस्य सर्वविशुद्धस्य, मोहनीयस्य पुनः स्वोदीरणापर्यवसाने सूक्ष्मसंपरायस्य । ततो द्वयोरप्येषा साद्यध्वा । ततोऽन्या सर्वाप्यनुत्कृष्टा । सापि चाप्रमत्तगुणस्थानकात्मतिपततो वेदनीयस्योपशान्तमोहगुणस्थानकाच प्रतिपततो मोहनीयस्य सादिः, तत्स्थानमप्राप्तस्य द्वयोरप्यनादिः ध्रुवाध्रुवे पूर्ववत् । 'सेसविगप्पा दुविह' त्ति-एतासां सप्तानामपि मूलप्रकृतीनां शेषा उक्तव्यतिरिक्ता विकल्पा जघन्याजघन्योत्कृष्टा द्विविधा द्विपकाराः। तद्यथा-सादयोऽधुवाश्च । तथाहि-एतासां सप्तानामतिसंक्लिष्टे मिथ्यादृष्टौ जघन्या प्रदेशोदीरणा । सा च सादिरधुवा च । संक्लेशपरिणामाच्च च्युतस्य मिथ्यादृष्टेरप्यजघन्या। ततः सापि सादिरधूवा च । उत्कृष्टा च प्रागेव भाविता। आयुषः सर्वेऽपि विकल्पा जघन्याजघन्योत्कृष्टानुस्कृष्टा द्विविधाः, तद्यथा-सादयोऽधवाश्च । सा च साद्यध्रुवताऽध्रुवोदीरणत्वादवसेया ॥८॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy