________________
| स्थानके वावगन्तव्यौ । एवमचक्षुश्चक्षुर्दर्शनावरणे च । बन्धं प्रतीत्य पुनः स्त्रीवेदश्चतुःस्थान के त्रिस्थान के द्विस्थानके वा । पुरुषवेदोचक्षुर्दर्शनावरणचक्षुर्दर्शनावरणे च चतुष्प्रकारेऽपि तद्यथा - चतुःस्थान के त्रिस्थान के द्विस्थान के एकस्थानके च । ननु 'देसघाई अचक्खू यत्ति प्रागेवोक्तं तत्किमर्थं पुनरिहा चक्षुर्दर्शनावरणोपादानम् ? उच्यते - स्थाननियमार्थम् । पूर्व हि देशघातित्वमेवाचक्षुर्दर्शनावरणस्योक्तम्, अत्र तु रसस्थाननियमः । 'जस्स' इत्यादि-यस्य जीवस्यैकमप्यक्षरं सर्वपर्यायैः परिज्ञातं वर्तते तस्य श्रुतकेवलिनो मतिश्रुता| वधिज्ञानावरणावधिदर्शनावरण प्रकृतीनामनुभागोदीरणायामेकस्थानको रसः प्राप्यते । संज्वलनानां तु बन्धेऽनुभागोदीरणायां च चतुष्प्रकारोऽपि रसः, तद्यथा - चतुःस्थानकस्त्रिस्थानको द्विस्थानक एकस्थानकश्च ॥ ४६ ॥
(उ० ) – वेदौ - स्त्रीवेद पुरुषवेदावनुभागोदीरणामुत्कृष्टामधिकृत्य द्विस्थानकेऽनुत्कृष्टां त्वधिकृत्य द्विस्थान के एकस्थान के वाऽवगन्तव्यौ । | एवम चक्षुर्दर्शनावरणं चक्षुर्दर्शनावरणं च । बन्धं प्रतीत्य पुनः स्त्रीवेदश्चतुःस्थानके त्रिस्थान के द्विस्थानके च । पुरुषवेदोऽचक्षुर्दर्शनावरणं | चक्षुर्दर्शनावरणं चैकद्वित्रिचतुःस्थानकभेदेन चतुष्प्रकारेऽपि । ननु 'देसधाई अचक्खू यत्ति प्रागेवोक्तमिति किमर्थं पुनरिहा चक्षुर्दर्शनावरणमुपात्तम् ! उच्यते - सदृशप्रकृत्यधिकारादिह संपातायातमेतत्, घातिसंज्ञानियमार्थं प्रागभिधानमिह तु रसस्थान नियमार्थमिति तु | मलयगिरिचरणाः । यस्य जीवस्यैकमप्यक्षरं सर्वपर्यायैः परिज्ञातं वर्तते तस्य संपूर्ण श्रुताक्षरस्य श्रुतकेवलिनो मतिश्रुतावधिज्ञानावरणा| वधिदर्शनावरणप्रकृतीनामनुभागोदीरणा यामेकस्थानको रसः प्राप्यते, संज्वलनानां तु बन्धेऽनुभागोदीरणायां चैकद्वित्रिचतुष्प्रकारोऽपि रसः प्राप्यते ॥ ४६ ॥
मणनाणं सेससमं मी सगसम्मत्तमवि य पावेसु । छट्ठाणवडियहीणा संतुक्कस्ता उदीरणया ॥ ४७ ॥
ans