________________
क/चैका चतुर्विशतिर्भङ्गकानाम् । एताश्चापूर्वकरणसत्काश्चतुर्विशतयः परमार्थतः प्रमत्ताप्रमत्तचतुर्विंशतिकातोऽभिन्नस्वरूपा इति न पृथगये || कर्मप्रकृतिः गणयिष्यन्ते ॥२३॥
प्रकृत्युदी
रणा ॥२०॥
___(उ०) तदेवं मिथ्यादृष्टौ मोहनीयस्योदीरणास्थानान्युक्तानि, अथ सासादनादिषु तान्याह-सासादनसम्यग्दृष्टौ च सप्तादीनि | नवपर्यन्तानि त्रीणि त्रीण्युदीरणास्थानानि भवन्ति, सप्ताष्टौ नव चेति । तत्र सासादनसम्यग्दृष्टावनन्तानुवन्ध्यादीनामन्यतमे चत्वारः क्रोधादिकाः, त्रयाणां वेदानामन्यतमो वेदः, द्वयोयुगलयोरन्यतरद्युगलमित्येताः सप्त नियमादुदीर्यन्ते । अत्र प्रागुक्तनीत्या भङ्गानामेका चतुर्विशतिः । तथाऽस्मिन्नेव सप्तके भये जुगुप्सायां वा क्षिप्तायामष्टानामुदीरणा । अत्र द्वे चतुर्विशती भङ्गानाम् । भयजुगुप्सयो युगपत् क्षेपे च नवानामुदीरणा । तत्र भङ्गानामेका चतुर्विंशतिः । सम्यग्मिथ्यादृष्टावनन्तानुबन्धियर्जानां त्रयाणां क्रोधादीनामन्यतम-18 वेदस्यान्यतरयुगलस्य सम्यग्मिथ्यात्वस्य चेति सर्वसंख्यया सप्तानामुदीरणा ध्रुवा । अत्र प्राग्वदेव भङ्गानामेका चतुर्विंशतिः । तथाऽत्रेव सप्तके भयजुगुप्सयोरन्यतरप्रक्षेपेऽष्टानामुदीरणा । अत्र भङ्गानां द्वे चतुर्विंशती । भयजुगुप्सयोयुगपत्प्रक्षेपे च नवानामुदीरणा । | अत्र चैका चतुर्विंशतिभङ्गानाम् । तथाऽविरतेऽविरतसम्यग्दृष्टौ पडादीनि नवपर्यन्तानि चत्वार्युदीरणास्थानानि, पट् सप्ताष्टौ नव चेति। तत्रौपशमिकसम्यग्दृष्टेः क्षायिकसम्यग्दृष्टेर्वाऽविरतस्यानन्तानुबन्धिवर्जान्यतमक्रोधादित्रयान्यतमवेदान्यतरयुगललक्षणानां पण्णां प्रकृती. नामुदीरणा ध्रुवा । अत्र प्रागिव भङ्गानामेका चतुर्विंशतिः । अस्मिन्नेव षद्के भयजुगुप्सावेदकसम्यक्त्वानामन्यतमस्मिन् प्रक्षिप्ते सप्ता-1 | नामुदीरणा । अत्र भङ्गानां तिरश्चतुर्विंशतयः । तस्मिन्नेव षट्के भयजुगुप्सयोर्यद्वा भयवेदकसम्यक्त्वयोर्यद्वा जुगुप्सावेदकसम्यक्त्वयोयुगपत्प्रक्षेपेऽष्टानामुदीरणा । अत्राप्येकैकस्मिन विकल्पे भङ्गानां चतुर्विंशतिः प्राप्यत इति तिम्रश्चतुर्विशतयः । भयजुगुप्सावेदकस
SYKC&S
॥२०॥