SearchBrowseAboutContactDonate
Page Preview
Page 805
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥१९॥ दीरणा । अत्र चैका भंगकानां चतुर्विंशतिः । सम्यग्मिथ्यादृष्टावनन्तानुबन्धिवर्जास्त्रयोऽन्यतमे क्रोधादयः, त्रयाणां वेदानामन्यतमो | वेदः, द्वयोर्युगलयोरन्यतरद्युगलं, सम्यग्मिथ्यात्वं चेति सप्तानामुदीरणा ध्रुवा । अत्र प्रागुक्तक्रमेण भंगकानामेका चतुर्विंशतिः । तथाSस्मिन्नेव सप्तके भयजुगुप्सयोरन्यतरस्मिन् प्रक्षिप्तेऽष्टानामुदीरणा । अत्र च द्वे चतुर्विंशती भंगकानाम् । भयजुगुप्सयोस्तु युगपत्प्रक्षितयोर्नवानामुदीरणा । अत्र चैका चतुर्विंशतिभंगकानाम् । तथाऽविरतेऽविरतसम्यग्दृष्टौ षडादीनि नवपर्यन्तानि चत्वार्युदीरणास्थानानि भवन्ति । तद्यथा-पट् सप्त अष्टौ नव । तत्रौपशमिकसम्यग्दृष्टेः क्षायिकसम्यग्दृष्टेर्वाऽविरतस्यानन्तानुबन्धिवर्जास्त्रयोऽन्यतमे क्रोधादिकाः त्रयाणां वेदानामन्यतमो वेदः, द्वयोर्युगलयोरन्यतरद्युगलमिति षण्णामुदीरणा ध्रुवा । अत्र प्रागिव भङ्गकानामेका चतुर्विंशतिः । अस्मिन्नेव षट्के भयजुगुप्सावेदकसम्यक्त्वानामन्यतमस्मिन् प्रक्षिप्ते सप्तानामुदीरणा । अत्र भङ्गकानां तिस्रश्चतुर्विंशतयः । तथा तस्मिन्नेव पट्के भयजुगुप्सयोरथवा भयवेदकसम्यक्त्वयोर्यद्वा जुगुप्सावेदकसम्यक्त्वयोर्युगपत् प्रक्षिप्तयोरष्टानामुदीरणा । अत्राप्येकैकस्मिन् विकल्पे भङ्गकानां चतुर्विंशतिः प्राप्यते इति तस्र - श्चतुर्विंशतयः । भयजुगुप्सावेदकसम्यक्त्वेषु युगपत्प्रक्षिप्तेषु नवानामुदीरणा । अत्र चैका चतुर्विंशतिर्भङ्गकानाम् । 'परम्मि पंचाइ अड्ड' इति । अविरतसम्यग्दृष्टेः परस्मिन् देशविरते पञ्चादीनि अष्टपर्यन्तानि चत्वारि उदीरणास्थानानि । तद्यथा - पञ्च षद् सप्त अष्टौ । तत्र प्रत्याख्यानावरण संज्वलनसंज्ञौ क्रोधादीनामन्यतमौ द्वौ क्रोधादिकौ, त्रयाणां वेदानामन्यतमो वेदः, द्वयोर्युगलयोरन्यतरद्युगलम् एतासां पञ्चानां प्रकृतीनां देशविरतस्योदीरणा ध्रुवा । एपा चौपशमिकसम्यग्दृष्टेः क्षायिकसम्यग्दृष्टेर्वाऽवगन्तव्या । अत्र च प्रागुक्तक्रमेण भङ्गकानामेका चतुर्विंशतिः । भयजुगुप्सावेदकसम्यक्त्वानामन्यतमस्मिंस्तु प्रक्षिप्ते षण्णामुदीरणा । अत्र भयादि CSS प्रकृत्युदी रणा ॥१९॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy