________________
161 टाऽबाधया जघन्यास्थितिहीनाया उत्कृष्टस्थितेर्भागे हृते सति यावान् भागो लभ्यते तावान् अर्थन कण्डकमित्युच्यते'इत्याम्नायिका व्याख्या
नयन्ति, चः समुच्चये | पञ्चसंग्रहे पुनरेतस्य स्थानेबाधाकण्डकस्थानानीत्युक्तम् । तत्र चैवं मूलटीकाकारेण व्याख्या कृता-"अबाधा च कण्डकानि चाबाधाकण्डकं, समाहारो द्वन्द्वः, तस्य स्थानानि अबाधाकण्डकस्थानानि, तयोईयोरपि स्थानसंख्येत्यर्थः"। ___ एतेषां दशानां स्थानानामल्पबहुत्वमुच्यते-तत्र संज्ञिपञ्चेन्द्रियेषु पर्याप्तेषु अपर्याप्तकेषु वा बन्धकेषु आयुर्वर्जानां सप्तानां कर्मणां सर्वस्तोका जघन्याऽबाधा, सा चान्तर्मुहूर्तप्रमाणा । ततोऽबाधास्थानानि कण्डकस्थानानि चासंख्येयगुणानि, तानि तु परस्परं तुल्यानि । तथाहि-जघन्यामबाधामादिं कृत्वोत्कृष्टाऽबाधाचरमसमयमभिव्याप्य यावन्तः समयाः प्राप्यन्ते तावन्त्यबाधास्थानानि भवन्ति । तद्यथाजघन्याऽबाधा एकमबाधास्थानं, सैव समयाधिका द्वितीयम्, द्विसमयाधिका तृतीयम् , एवं तावद्वाच्यं यावदुत्कृष्टाबाधाचरमसमयः। एतावन्त्येव चाबाधाकण्डकानि, जघन्यावाधात आरभ्य समयं समयं प्रति कण्डकस्य प्राप्यमाणत्वात् । एतच्च प्रागेवोक्तम् । तेभ्य उत्कृटाबाधा विशेषाधिका, जघन्याबाधायास्तत्र प्रवेशात् । ततो दलिकनिषेकविधौ द्विगुणहानिस्थानानि असंख्येयगुणानि, पल्योपमप्रथमव गमलासंख्येयभागगतसमयप्रमाणत्वात् । तत एकस्मिन द्विगुणहान्योरन्तरे निषेकस्थानान्यसंख्येयगुणानि, तेषामसंख्येयानि पल्योपमवर्गमूलानि परिमाणमिति कृत्वा। तेभ्योऽपि अर्थेन कण्डकमसंख्येयगुणम् । तस्माज्जघन्यः स्थितिबन्धोऽसंख्येयगुणः, अन्तःसागरोपमकोटीकोटीप्रमाणत्वात् । संज्ञिपञ्चेन्द्रिया हि श्रेणिमनारूढा जघन्यतोऽपि स्थितिबन्धमन्तःसागरोपमकोटीकोटीप्रमाणमेव कुर्वन्ति । ततोऽपि स्थितिबन्धस्थानानि संख्येयगुणानि । तत्र ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणामेकोनत्रिंशद्गुणानि समधिकानि, मिथ्यात्व| मोहनीयस्यैकोनसप्ततिगुणानि समधिकानि । नामगोत्रयोरेकोनविंशतिगुणानि समधिकानीति । तेभ्य उत्कृष्टा स्थितिर्विशेषाधिका, जघ