SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ GESCUISSARD नारकोऽपि श्रेणिकादिवदेवं तद्वन्धकः संभवति परमिह देवोऽल्पयोगत्वादनुत्तरवासी गृह्यते, नारकेषु त्वेवंभूतो जघन्ययोगो न51 लभ्यत इति तेषु समुत्पनो नेह गृहीतः । तिर्यञ्चस्तु तीर्थकरनाम न बध्नन्तीत्युपेक्षिताः । मनुष्यास्तु भवाद्यसमये तीर्थकरनामसहिता | नाम्न एकोनत्रिंशत्प्रकृतीबध्नन्ति, परं तत्राल्पा भागा इति तेऽप्युपेक्षिताः । एकत्रिंशद्वन्धस्तु जिननामसहितः संयतस्यैव भवति, तत्र वीर्यमल्पं न लभ्यत इति तस्यापि त्यागः । देवद्विकवैक्रियद्विकयोदेवो नरयिको वा तीर्थकरनामबन्धको यथासङ्खथं देवभवान्नारकभवाच्च च्युतो मनुष्यभवे समुत्पद्यमान उत्पत्तिप्रथमसमयस्थो देवगतिप्रायोग्यास्तीर्थकरनामसहिता एकोनत्रिंशत्प्रकृतीबंधनन् सम्यग्दृष्टिजघन्ययोगस्थानवर्ती जघन्यप्रदेशबन्धकर्ता । देवनारका भवप्रत्ययादेवैतत्प्रकृतिचतुष्टयं न बध्नन्तीति नेहाधिकृताः । तिर्यश्चश्वभोगभूमिजा भवाद्यसमये बध्नन्ति एतत् केवलं देवगतिप्रायोग्यामष्टाविंशति बध्नन्तीति भागाल्पत्वात्तेऽपि नाधिकृताः । मनुष्यस्याप्यष्टाविंशतिबन्धकस्य भागा बहवो न लभ्यन्ते । त्रिंशदेकत्रिंशद्वन्धौ तु देवगतिप्रायोग्यौ संयतस्य भवतः, परं तत्र वीयमल्पं न लभ्यते। अन्ये च देवगतिप्रायोग्या बन्धा एव न सन्तीत्येकोनत्रिंशद्वन्धकस्य मनुष्यस्यैव ग्रहणम् । ननु तिर्यक्षु पर्याप्तासंज्ञी देवगतिप्रायोग्यं बध्नन्नेत-४ | प्रकृतिचतुष्टयबन्धकः कस्मान गृहीतः ? उच्यते-प्रभूतयोगत्वादपर्याप्तसंज्ञियोगाद्धि पर्याप्तासंज्ञियोगो जघन्यतोऽप्यसङ्खथेयगुण इति । शेषाणां तु मनुष्यायुस्तिर्यगायुवर्जितानां नवोत्तरशतसङ्ख्यानां प्रकृतीनां मूक्ष्मनिगोदो लब्ध्यपर्याप्तः सर्वाल्पवीर्य उत्पत्तिप्रथमसमये | जघन्यप्रदेशबन्धस्वामी । नवरमपर्याप्तकसूक्ष्मसाधारणनाम्नां पञ्चविंशतिबन्धकः, एकेन्द्रियातपस्थावराणां षड्विंशतिबन्धको, मनुष्यद्विकस्यैकोनत्रिंशद्वन्धकः, शेषाणां तु त्रिंशद्वन्धक उक्तविशेषणस्तथा । मनुष्यतिर्यगायुषोः स एव स्वायुःशेषत्रिभागसमये तथा, कारणं तु प्रागुक्तमेव ॥२८॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy