________________
| दारिकौदारिक १ औदारिकतैजस २ औदारिककार्मण ३ औदारिकतैजसकार्मण ४ तेजसतैजस ५ तैजसकार्मण ६ कार्मणकार्मण ७ रूपाणि चैकियचतुष्कतैजसत्रिकरूपाणि वा सप्त बन्धनानि बध्नता सप्त । वैक्रियचतुष्काहारकचतुष्कतैजसत्रिकलक्षणान्येकादश बन्धनानि बध्नता एकादश । अवशेषाणां च प्रकृतिनां यद्भागलब्धं दलिकमायाति तन्न भूयो विभज्यते, तासां युगपदवान्तरद्विव्यादिभेदबन्धाभावात् । तेन तासां तदेव परिपूर्ण दलिकं भवति । इहैकाध्यवसायगृहीतस्य कर्मदलिकस्य परमाणवो विभागशः कृत्वा मूलप्रकृतिभ्य उत्तरप्रकृतिभ्यश्च दत्ताः, तत्र न ज्ञायते जघन्यपदे उत्कृष्टपदे वा कस्याः कियान् भागस्ततो विशेषपरिज्ञानार्थमाह-'मूलपगई' इत्यादि। आसां मूलप्रकृतीनामुत्तरस्वप्रकृतीनां च परस्परं भागस्य विशेषोऽल्पबहुत्वात् शास्त्रान्तरोक्तात् द्रष्टव्यः । तत्र मूलप्रकृतीनामल्पबहुत्वं दश्यते-इह कर्मणां स्थित्यनुसारतो भाग आभजति, यस्य बृहती स्थितिस्तस्य बृहद्भागः, यस्य स्तोका तस्य स्तोक इति । तत्रायुषो भागः सर्वस्तोकः, सर्वेभ्योऽप्यन्येभ्यः स्तोकस्थितिकत्वात् तत्स्थितेरुत्कर्षतोऽपि त्रयस्त्रिंशत्सागरोपमप्रमाणत्वात् । ततो नामगोत्रयो
र्भागो बृहत्तरः, तयोः स्थितेविंशतिसागरोपमकोटीकोटी प्रमाणत्वात् , स्वस्थाने तु द्वयोरपि परस्परं तुल्यः, समानस्थितिकत्वात् । | ततोऽपि ज्ञानावरणदर्शनावरणान्तरायाणां बृहत्तमः, तेषां स्थितेस्त्रिंशत्सागरोपमकोटीकोटीप्रमाणत्वात् , स्वस्थाने परस्परं तुल्य एव,
तुल्यस्थितिकत्वात् । ततोऽपि मोहनीयस्य वृहत्तमः, तस्य स्थितेः सप्ततिसागरोपमकोटीकोटीप्रमाणत्वात् । वेदनीयं यद्यपि ज्ञानावरKणीयादिभिः सह समस्थितिकम्, तथापि तस्य भागः सर्वोत्कृष्ट एव वेदितव्यः, अन्यथा स्पष्टतरस्वफलसुखदुःखोपदर्शकत्वानुपपत्तेः।
इदानीं स्वस्वोत्तरप्रकृतीनामुत्कृष्टपदे जघन्यपदे चाल्पबहुत्वमभिधीयते-तत्रोत्कृष्टपदे सर्वस्तोकं केवलज्ञानावरणस्य प्रदेशाग्रम् , ततो मनःपर्यवज्ञानावरणीयस्यानन्तगुगम् , ततोऽवधिज्ञानावरणीयस्य विशेषाधिकम् , ततः श्रुतज्ञानावरणीयस्य विशेषाधिकम् , ततोऽपि