SearchBrowseAboutContactDonate
Page Preview
Page 1400
Loading...
Download File
Download File
Page Text
________________ ___ अधुनोदयेऽपि यद्वक्तव्यं तदुच्यते-एकेन्द्रियानधिकृत्योच्छ्वासात् द्वीन्द्रियादीनधिकृत्योवासस्वराभ्यां पूर्व पश्चाद्वोद्योतातपयोयथा || योगमुदयो भवति, तथैव चाग्रे भावयिष्यामः । तथा सूक्ष्मस्यापर्याप्तस्य साधारणस्य चोदयेन सह नातपमुद्योतं चोदयमेति । तथोद्योतेन | सहातएं न बध्यते, नापि मूक्ष्मापर्याप्तसाधारणरूपेण त्रिकेण सहातपोद्योतोभयम् । अयं बन्धविषयोऽपवादः, अथोदयविषयेऽयमभिधीयते-| साधारणोदयेऽप्युद्योतयशःकीर्योरुदयो भवति,दुर्भगानादेयायशःकीतीनामुदये वादरपवनः पर्याप्तो वैक्रियशरीरमारभ्य तदुदयभाग्भवति, | बादरपर्याप्तग्रहणात् पर्याप्तापर्याप्तसूक्ष्मापर्याप्तबादरव्युदासः, तेषां वैक्रियलब्धेरेवाभावात् । उक्तं च प्रज्ञापनाचूर्णी-"तिण्हं रासीणं वेउब्वियलद्धी चेव णस्थि, वायरपजत्ताणं संखेजइमे भागे तस्स ति” । तथा दुर्भगानादेययोरुदयेऽपि देवगत्युदयो न विरुध्यते । तथा| ऽऽहारकद्विकस्योदयो दुर्भगानादेयायशःकीयुदयविरुद्धः अस्थिराशुभोदयेन चाविरुद्धः, तयोधुंवोदयत्वात् । तथा विकलेन्द्रियेषु सुखरो| दयोऽप्यविरुद्धः । तथा मनुष्याणां देशविरतानां सर्वविरतानां वा यथायोगं वैक्रियाहारककरणाद्धायां वर्तमानानामुद्योतोदयो भवति, न शेषाणाम् । तदेवमुदयविषयसंभवचिन्तां विधायोदयस्थानान्यभिधीयन्ते-तत्र चतुर्गतिकान् प्राणिनोऽधिकृत्य सर्वसंख्यया नाम्नो द्वादशोदयस्थानानि । तथाहि-विंशतिरेकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः पर्विशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशबवाष्टौ च । एतान्येवोदयस्थानानि गतिषु चिन्त्यन्ते-मनुष्येषु चतुर्विंशतिवर्जानि शेषाण्येकादशाप्युदयस्थानानि संभवन्ति, चतुर्विंशतिस्तु न संभवति, तस्या एकेन्द्रियेष्वेव संभवात् । विंशत्यष्टनवोदयवर्जिताः शेषा नवोदयास्तिर्यक्षु संभवन्ति, नवाष्टोदयावयोगिकेवलिनि प्राप्यते, विंशत्युदयस्तु केवलिसमुद्घातावस्थायामिति तिर्यक्ष्वेतत्रयवर्जनम् । तथा नरकगतौ पश्चोदयाः, तद्यथा-एकविंशतिः | पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशञ्च । एत एव च पञ्चोदयाः सुरगतौ त्रिंशत्सहिताः षड् वेदितव्याः ।
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy