________________
कर्मप्रकृतिः
॥१०५॥
यद्वा जुगुप्साऽनन्तानुबन्धिनोः प्रक्षिप्तयोर्नवानामुदयः । तत्राप्येकैकस्मिन् विकल्प भङ्गानां चतुर्विंशतिः प्राप्यत इति तिस्रश्चतुर्विश-13 | तयः । तथा तस्मिन्नेव सप्तके भयजुगुप्सानन्तानुबन्धिषु युगपत्यक्षिप्तेषु दशानामुदयः । अत्रैकैव भङ्गानां चतुर्विंशतिः । सर्वसङ्ख्यया | मिथ्यादृष्टावष्टौ चतुर्विंशतयः । सासादने मिश्रे च सप्ताष्ट नवलक्षणास्त्रय उदयाः। तत्रानन्तानुबन्ध्यादीनामन्यतमे चत्वारः क्रोधादि
स्थानभङ्गाः कास्त्रयाणां वेदानामन्यतमो वेदो द्वयोर्युगलयोरन्यतरयुगल मित्येतासां सप्तानां प्रकृतीनामुदयः सासादने ध्रुवः । अत्र प्रागुक्तरीत्या | भङ्गानामेका चतुर्विंशतिः । तथा तस्मिन्नेव सप्तके भये वा जुगुप्सायां वा क्षिप्तायामष्टानामुदयः, अत्र द्वे चतुर्विंशती भङ्गानां । भय जुगुप्सयोयुगपत्क्षिप्तयोनवानामुदयः, अत्रैका भङ्गानां चतुर्विंशतिः । सर्वसङ्खथया सासादने चतस्रश्चतुर्विंशतयः। तथा सम्यनिध्यादृष्टावनन्तानुबन्धिवर्जास्त्रयोऽन्यतमे क्रोधादयः त्रयाणां वेदानामन्यतमो वेदो द्वयोयुगलयोरन्यतरांगलं सम्यग्मिथ्यात्वं चेति सप्तानां प्रकृतीनामुदयो ध्रुवः । अत्र प्रागुक्तरीत्या भङ्गानामेका चतुर्विंशतिः । अस्मिन्नेव सप्तके भये जुगुप्सायां वा क्षिप्तायामष्टानामुदयः, अत्र द्वे चतुर्विशती । भय जुगुप्सयोयुगपत्क्षिप्तयोनवानामुदयः, अत्रैका चतुर्विंशतिः । सर्वसंख्यया सम्यग्मिथ्यादृष्टौ चतस्रचतुर्विशतयः । अविरतसम्यग्दृष्टौ षट् सप्ताष्टौ नव चेति चत्वार उदयाः । तत्रौपशमिकसम्यग्दृष्टेः क्षायिकसम्यग्दृष्टेर्वा अस्यानन्तानुबन्धिवर्जास्त्रयोऽन्यतमे क्रोधादिका अन्यतमो वेदोऽन्यतरच युगल मिति षष्णामुदयो ध्रुवः, अत्रापि प्राग्वद्भङ्गानामेका चतुर्विंशतिः । अस्मिन्नेव षटके भये जुगुप्सायां वा वेदकसम्यक्त्वे वा क्षिप्त सप्तानामुदयः, अत्र भयादिषु प्रत्येकमे कैकचतुर्विंशतिप्राप्तेस्तिस्रश्चतुर्विंशतयः । तस्मिन्नेव षट्के भयजुगुप्सयोर्वा भयवेदकयो, जुगुप्सावेदकयो क्षिप्तयोरटानामुदयः, अत्रापि तिस्रश्चतुर्विशतयः । युगपत्र- ॥१०५॥ यप्रक्षेपे नवानामुदयः, अत्रैका चतुर्विंशतिः । सर्वसङ्ख्ययाऽविरतसम्यग्दृष्टावष्टौ । देशविरते पञ्च षट् सप्ताष्टौ चेति चत्वार उदयाः। तत्रौ-