SearchBrowseAboutContactDonate
Page Preview
Page 1368
Loading...
Download File
Download File
Page Text
________________ DESCRISicketNG सासादनभावस्य कालस्तावानेवास्य द्रष्टव्यः, स च जघन्यत एकः समय उत्कर्षतः षडावलिकाः । सप्तदशबन्धे चोत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि किश्चित्समधिकानि । त्रयस्त्रिंशत्सागरोपमाणि हि अनुत्तरसुरेषु प्राप्यन्ते, ततथ्युत्वेहागत्य यावदद्यापि देशविरतिं सर्वविरतिं | वा न प्रतिपद्यन्ते तावत्सप्तदशबन्ध इति किश्चित्समधिकानीत्युच्यन्ते, जघन्यतस्त्वन्तर्मुहर्त्तम् । त्रयोदशवन्धे नवकवन्धे चोत्कृष्टा स्थि तिर्देशोना पूर्वकोटी, यतस्त्रयोदशबन्धो देशविरतौ, नवकबन्धश्च सर्वविरतौ, देशविरतेः सर्वविरतेश्चोत्कर्षतोऽपि देशोनपूर्वकोटिरेवकाल | इति, जघन्यतस्त्वनयोः स्थितिरान्तमौहर्तिकी । शेषेषु तु पश्चादिपूत्कपतोऽन्तर्मुहर्तप्रमाणा स्थितिः, जघन्यतस्तु समयमात्रा । तभा| वना चैवं-उपशमश्रेग्यां पञ्चविधबन्धमारभ्य द्वितीयसमये कश्चित कालं कृत्वा देवलोकं याति, तत्र च गतः सन्नविरतो भवति, अविरतत्वे च सप्तदशवन्ध इत्येकसमयता । एवं चतुर्विधादिष्वपि भावनीयम् । तदेवमुक्तानि मोहनीयस्य बन्धस्थानानि । ___ अथोदयस्थानान्युच्यन्ते-नव मोहनीयस्योदयस्थानानि, तद्यथा-एकं द्वे चत्वारि पश्च षट् सप्ताष्टौ नव दश च । तत्र चतुर्णा | संज्वलनानामेकतमस्योदये एककमुदयस्थानं, तदेव त्रयान्यतमवेदप्रक्षेपे द्विकं, तत्रापि हास्यरतिरूपयुगलप्रक्षेपे चतुष्कं, तत्रैव भयप्रक्षेपे || | पञ्चकं, ततो जुगुप्साप्रक्षेपात् षट्कं, तत्रैव चतुर्णा प्रत्याख्यानावरणानामन्यतमोदयप्रक्षेपे सप्तकं, तत्रैवापत्याख्यानानां चतुर्णामन्यतमप्रक्षेपेऽष्टकं, तत्रैव चतुर्णामनन्तानुबन्धिनामन्यतमप्रक्षेपे नवकं, तत्रैव मिथ्यात्वप्रक्षेपे दशकमिति । तत्र द्विकादयो दशान्ता उदयाः प्रत्येकं क्रोधे माने मायायां लोभे च प्राप्यन्त इति चतुर्विधा भवन्ति । ते च चतुर्विधाः सन्तः प्रत्येकमेकैकस्मिन् वेदे प्राप्यन्त इति वेदत्रयवशाद्वादशधा भवन्ति । द्वादशधा च सन्तो द्विकोदयरहिताः शेषा उदयाः प्रत्येकमेकैकस्मिन् युगले प्राप्यन्त इति युगलसंचा-13 | रणया द्विगुणा भवन्ति, ततो द्विकोदये द्वादशैव भङ्गाः, शेषेषु तूदयेषु प्रत्येकं चतुर्विंशतिः । सा चैकैकस्मिन् गुणस्थानेऽनेकधा प्राप्यते.
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy