________________
(मलय ० ) - तथा चाह - 'संभवतो 'ति । 'संभवतः '- संभवमाश्रित्य स्थानानि प्रदेशसत्कर्मस्थानानि । 'करणेषु' - बन्धनादिषु उदये च । 'कर्मप्रदेशेभ्यः' - कर्मप्रदेशानधिकृत्य 'ज्ञेयानि ' - ज्ञातव्यानि । कथमित्याह - एवमुपदर्शितेन, एतेन प्रागुक्तेन अनुमानेन - प्रकारेण | ज्ञातव्यानि । तथाहि -बन्धनकरणे जघन्यं योगस्थानमादिं कृत्वा यावदुत्कृष्टयोगस्थानमेतावन्ति प्रदेशसत्कर्मस्थानानि वन्धमाश्रित्य प्राप्यन्ते, तावन्ति चैकं स्पर्धकम् । एवं संक्रमणादिष्वपि प्रत्येकं यथायोगं भावनीयम् ||२०||
(उ०)—बन्धनादिकरणेष्वपि यथायोगमित्थंभूत स्पर्धकातिदेशमाह-एवमुपदर्शितेन एतेन बुद्धिसमीपतरवर्त्तिनाऽनुमानेन प्रकारेण संभवतः--संभवमाश्रित्य स्थानानि प्रदेशसत्कर्मस्थानानि करणेषु बन्धनादिषूदये च कर्मप्रदेशेभ्यः कर्मप्रदेशानधिकृत्य ज्ञेयानि - ज्ञात| व्यानि । तथाहि--बन्धनकरणे जघन्ययोगस्थानादारभ्य यावदुत्कृष्टं योगस्थानं तावन्ति प्रदेशसत्कर्मस्थानानि बन्धमाश्रित्य प्राप्यन्ते, तावन्ति चैकं स्पर्धकं, एवं संक्रमादिष्वपि प्रत्येकं यथायोगं भावनीयम् ॥५०॥
करणोदयसंताणं पगइठाणेसु सेसगतिगे य । भूयक्कारप्पयरो अवठिओ तह अवत्तव्व ॥ ५१ ॥
(०) - ' करणोदयसंताणं पगतिट्ठाणेसु'त्ति-अट्ठ करणाणं उदयसंताणगपगतिद्वाणेसु 'सेसतिविहे यत्तितेसिं चैव द्वितिअणुभागपदेसहाणेसु य 'भूओगारप्पतरो अवट्ठितो तह अवत्तन्वोति ॥ ५१ ॥
( मलय ० ) - ' करणोदयसंताणं ति - अष्टानां करणानां उदयसत्तयोश्च प्रकृतिस्थानेषु 'सेसगतिगे य'त्ति-शेषके च त्रिके स्थित्यनुभागप्रदेशरूपे प्रत्येकं चत्वारो विकल्पा ज्ञातव्याः तद्यथा - भूयस्कारः, अल्पतरः, अवस्थितः, अवक्तव्यश्च ॥५१॥
( उ० ) - अष्टानां करणानामुदयसत्तयोश्च प्रकृतिस्थानेषु शेषके च त्रिके स्थित्यनुभाग प्रदेशरूपे प्रत्येकं चत्वारो भेदा ज्ञातव्याः