________________
कर्मप्रकृतिः ॥९६॥
रणा । सा च सादिरधुवा च, समयमात्रत्वात् । ततोऽन्या सर्वाप्यनुत्कृष्टा । सापि च सम्यक्त्वात्प्रतिपततो भवन्ती सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाधुवे पूर्ववत् । तथा सप्तचत्वारिंशतः प्रकृतीनामनुत्कृष्टा प्रदेशोदीरणा त्रिधा । तद्यथा - अनादिवावा च । तथाहि - पञ्चविधज्ञानावरणपञ्चविधान्तराय चतुर्विधदर्शनावरणरूपाणां चतुर्दशप्रकृतीनां क्षीणकषायस्य गुणितकर्माशस्य स्वस्वोदीरणापर्यवसाने उत्कृष्टा प्रदेशोदीरणा । सा च सादिरध्रुवा च । ततोऽन्या सर्वाप्यनुत्कृष्टा, सा चानादिः ध्रुवोदीरणत्वात् । ध्रुवशध्रुवे पूर्ववत् । तथा तैजससप्तकवर्णादिविंशतिस्थिरास्थिरशुभाशुभागुरुलघुनिर्माणनाम्नां त्रयस्त्रिंशत्संख्याकानां प्रकृतीनां गुणित कर्माशस्य सयोगिकेवलिनः चरमसमये उत्कृष्टा प्रदेशोदीरणा । सा च सादिरध्रुवा च । ततोऽन्यथा सर्वाऽप्यनुत्कृष्टा । सा चानादिः, ध्रुवोदीरणत्वात् । आसां ध्रुवाधुवे पूर्ववत् । 'सेसविगप्पा दुविह'त्ति-उक्तशेषा विकल्पा जघन्याजघन्योत्कृष्टरूपा द्विविधाः । तद्यथा - सादयोऽध्रुवाच । तथाहि - सर्वासामप्युक्तप्रकृतीनामतिसंक्लिष्टपरिणामे मिथ्यादृष्टौ जघन्या प्रदेशोदीरणा लभ्यते । अतिसंक्लिष्टपरिणामप्रच्यवने चाजघन्या । ततो द्वे अपि साद्यध्रुवे । उत्कृष्टा च प्रागेव भाविता । शेषाणां चोक्तव्यतिरिक्तानां प्रकृतीनां दशोत्तरशतसंख्यानां सर्वेऽपि विकल्पा जघन्याजघन्योत्कृष्टानुत्कृष्टा द्विविधाः । तद्यथा - सादयोऽधुदाश्व । साद्यध्रुवता चाधुवोदोरणत्वादवसेया ॥ ८१ ॥
( उ० ) — उत्तरप्रकृतीनां साद्यादिप्ररूपणार्थमाह - मिथ्यात्वस्यानुत्कृष्टा प्रदेशोदीरणा चतुर्विधा-साद्यनादिध्रुवा ध्रुव भेदात् । तथाहिअनन्तरसमये संयमसहितं सम्यक्त्वं प्रतिपित्सोर्मिथ्यात्वस्योत्कृष्टा प्रदेशोदीरणा, सा चैकसामयिकीति साद्यध्रुवा, ततोऽन्या सर्वा| प्यनुत्कृष्टा, साऽपि सम्यक्त्वात्प्रतिपततो भवन्ती सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाधुवे प्राग्वत् । तथा सप्तचत्वारिंशतः प्रकृती| नामनुत्कृष्टा प्रदेशोदीरणा त्रिविधा - अनादिध्रुवा ध्रुव भेदात् । तथाहि - ज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरणचतुष्टयरूपचतुर्दशप्रकृतीनां
प्रदेशो
दीरणा
॥९६॥