________________
%
है इत्येषा कथ्यते बुद्धिः पुंसो बैनयिकी जनैः ॥ ४ ॥ पूर्णकुहेतुदृष्टान्तैर्न तत्त्वं प्रतिपद्यते । मण्डलश्चर्मकारस्य भोज्यं ।
चर्मलवैरिव ॥५॥ अतथ्यं मन्यते तथ्यं विपरीतरुचिर्जनः । दोषातुरमनास्तिक्तं ज्वरीव मधुरं घृतम् ॥६॥ जीवो निसर्गमिथ्यात्वस्तत्त्वातत्त्वं न बुध्यते । सुन्दरासुन्दरं रूपं जात्यन्ध इव सर्वथा ॥७॥ देवो रागी यतिः सङ्गी धर्मः प्राणिवधात्मकः । मूढदृष्टिरिति ब्रूते युक्तायुक्ताविवेचकः॥८॥ ससप्रकारमिथ्यात्वमोहितेनेति जन्तुना। सर्व विषाकुलेनेव विपरीतं विलोक्यते ॥९॥ सान्निपातिकभूतार्तमद्यपोन्मत्तभक्षकाः। तेभ्यो विशिष्यते मिथ्यादृष्टिस्वत्सर्वदोषभूः ॥ १० ॥ मिथ्यात्वमोहनीयस्य क्षयेनोपशमेन वा । जीवाजीवादितत्त्वानि श्रद्धत्तेऽङ्गी यथास्थितम् । ॥ ११ ॥ जायते शासने भावरुचिरा रुचिराईते । वाक्पतेरिव कस्यापि कथञ्चित्कर्मलाघवात् ॥ १२ ॥ तथाहि| मरतेऽत्रैव षट्त्रिंशल्लक्षग्राममनोहरे । कन्यकुब्जाख्यविषये श्रीगोपालगिरौ पुरे ॥ १॥ आमनामा नृपः श्रीमान् ली विद्याभिर्विदुराग्रणीः। अश्वलक्षद्वयोपेतं भटकोटिबलोत्कटम् ॥२॥ चतुर्दशशतप्रौढगजेन्द्ररथमण्डितम् । सुकृती कुरुते राज्यं स्वाराज्यमिव वासवः॥३॥ त्रिभिर्विशेषकम् ॥ आ शैशवादजायन्त तस्य विश्वम्भरापतेः । क्षीरनीरो. पमा मैत्री भजन्तो भुवनाद्धताम् ॥ ४॥ मुनिव्योमाष्टके वर्षे गृहीतोत्तमसंयमाः। प्रज्ञाबलात्प्रतिदिनं सहस्रश्लोकपाठिनः ॥५॥ रुद्राष्टवत्सरे प्रासश्रीसूरिपदसंपदः । चतुर्दशमहाविद्याविदुरश्रेणीशेखराः ॥६॥ श्रीसिद्धसेनसूरीन्द्रपट्टपावरविप्रमाः। मनःसमस्यासंपत्तौ निःशवं शङ्करोपमाः ॥७॥ पविधविकृतित्यागकृतः सूरिपदावधेः ! अजि
-%
२-ॐ