________________
स्तुति
चतुष्कम्
श्रीदे चैत्यश्रीधर्म०संघाचारविधौ ॥३९५॥
वृद्धिः, ततश्च स्वकार्यकारित्वोपयुक्तता, जगप्रसिद्धमेतत् यत्प्रशंसातः सोत्साहं कार्यकरणादर इति, तुशब्दो विशेषकस्तेन या श्रुताङ्गीशासनदेवतादिविषयाः स्तुतयस्ताः सर्वा अपि चतुर्थस्तुतौ निपतंति, गुणोपवृंहणद्वारेण तासामप्युपयुक्ततादिफलत्वात् , स्तुतियुगलेषु तथानिबंधना , गुणोत्कीर्चनस्य द्वितीयस्तुतिरूपत्वात् , तथाहि -जिनज्ञानस्तुतिर्वदनाद्यात्मकत्वादेका गण्यते, वैयावृत्यकरादिस्तुतयस्तु द्वितीया गुणोत्कीर्तनादिरूपत्वाद् ,एवमेव युगलत्वसिद्धेः, भावितं चैतत् पंचमे वंदनाद्वारे, अत एव कचित् युगले चतुर्था स्तुतिः 'सर्वे यक्षांविके त्यादि वैयावृत्यकराणां, क्वापि च भूयासुः सर्वदा देवा देवीमि'रिति सामान्यतः सर्वदेवतानां, कुत्रापि 'गौरी सैरेभेति विद्यादेवतानां, अन्यत्र 'निष्पंकव्योमनीले ति देवविशेषविषया 'एकत्र विकटदशने'ति देव्या एव, कुत्रचिच्च 'आमूलालोलधूली'त्यादि श्रुतदेवतायाः, इत्यादि परिभावनीयमिदं सूक्ष्मधिया कुग्रहविरहेण । कायोत्सर्गविषयेऽपि | बहु विमर्शनीयं यतो देवसिकावश्यकमध्ये सामान्यतो वैयावृत्यकरान् विमुच्य केवलबुतदेवतादेः कायोत्सर्गकरणं, पाक्षिकादौ तु भुवनदेव्याः, दीक्षादौ तु शासनदेव्यादीनामपि, इत्यलं प्रसंघेन, तचं तु परमर्पयो विदंतीति । स्तुतयश्चैताः-जिनं यशःप्रतापास्तपुप्पदंतं समंततः। संस्तुवे यत्क्रमौ मोहपुष्पदंतं समंततः॥१॥ प्रातस्तेऽहिद्वयी येन, सरोजास्य समानता । त्वयाऽस्तु जिनधः |
ब्जिसरोजास्य समानता ॥२॥ वंदे देव! च्युतोत्पत्तिवतकेवलनितिम् । विश्वाचिंतच्युतोत्पत्तिवतर्केवलनिर्वृतिम् ॥३॥ चतुरास्यं चतुष्कायं, चतुर्धावृपसेवितम् । प्रणमामि जिनाधीशं,चतुर्धावृपसेऽवितम् ॥४॥ जिनेन्द्रानंजनश्यामाकल्याणाजहिमप्रमान् । चतुविंशतिमानौम्यकल्याणाजहिमप्रभान् ॥५॥ विलोक्य विकचांभोजकाननं नाभिनंदनम् । द्रष्टुमुत्कायते कोऽपि,काननं नाभिनंदनम् ॥६॥ तवानीश! सदा वश्याजितनिष्कोप नापति । अहितो न हि तं स्वाभाजितनिष्कोऽपनाधति ॥७॥ सदातनाय सेनांगभव-
P Humanand RIMALISMPRIMARISHMAPTAPAHARULAIMPORTAINMEOPAHINI
Hemam
॥३९५॥