________________
CHEC
श्रीपाल ॥८॥
चरित्रम् ॥८॥
दर्शनम् ॥७७॥ नातोऽग्रे गम्यतामेषां, पवनस्पर्शनादपि। रोगोत्पत्तिर्भवेत्तस्मा-दन्यमार्गेण गम्यताम् ॥७८॥ तच्छुत्वाऽपरमार्गेण, राजा चचाल शीघ्रतः । इतो ज्ञातं स्वरूपं त-गलिताङ्गुलिमन्त्रिणा ॥७९॥ ततोऽसो वेसरारूढः, समागत्यावदन्नृपं । अस्मिंश्चभूतले कीर्ति-स्ते वरीवर्तते नृप ! ॥८०॥ अम्माकमूम्बरराणा--प्रसादेनात्र भूतले। कस्यापि न्यूनता नास्ति, धनधान्यादिवस्तुनाम् ॥८१॥ किञ्च मालवराजाने, यत्किञ्चित्कोऽपि याचते।तत्सर्व स ददातीति, तव कीर्तिःश्रुताऽस्ति च ॥८२॥ युष्मत्याचे वयं यात्रा--कृतेऽत्र च समागताः। अस्मदुम्बरभूपस्य, भार्येकाऽपि न विद्यते ॥८३॥ देयाऽतो भवता पुत्री, चैका यादृशी तादृशी । अस्मद्राज्ञे 4 वयं स्मः सत; क्षत्रियाः कुष्टिनोऽभवन् ॥८४॥ तदस्मदूषणं कस्या--ऽग्रे कथ्यते? महांश्च ते।प्रतापोऽस्ति ततोऽस्माभि-रेका कन्या प्रयाच्यते ॥८५॥ इति तद्वचनं श्रुत्वा, विहस्य प्राह भूपतिः। भो! गलिताङ्गुले ! कन्या, हे रोगिणे दीयते कथम् ? ॥८६॥ अतोऽन्यद्वस्तु याचध्वं, यूयं तच्च ददाम्यहं । गलिताङ्गुलिराहाथ, नान्य- | किमपि युज्यते ॥८७॥ परन्तु तेऽनया वाचा, कीर्तिलोपो भविष्यति । वयं यत्र प्रयास्याम-स्तत्राऽस्माभिवदिष्यते ॥८८॥ यन्मालवनृपः पूर-यति याचककामितं। नेति राजन्नतस्तुभ्यं, स्वस्तिोमो वयं पुनः ॥८९॥
Sain Educa
t ional
For Persona & Private Lise Only
nelibrary.org