________________
श्रीचन्द्रीया सामाचारी
मालारो. पंणं ५
भणनपूर्वमाभिमन्त्रितशिरोविन्यस्तगन्धश्रीखण्डाक्षतः त्रिभुवनगुरुजिनप्रतिमाऽविचलन्यस्तदृष्टिः शिरोविन्यस्तकरकु- ड्मलो जिनमुद्रादिविहितविधिः प्रतिपदं सूत्रार्थं भावयन् श्रद्धासंवेगपरमवैराग्ययुक्तः अतीवप्रवईमानतीव्रशुभपरिणामो भक्तिभर निर्भरो हर्षाञ्चितवपुर्निजबन्धुसहितः विशिष्टगुरुगुणगणकलितगुरुणा सह चतुर्विधसङ्घयुक्तः समवसरणाग्रतो देवानभिवन्दते, शान्तिनाथाचाराधनार्थं कायोत्सर्गः ४, शक्रस्तवपाठः, अरिहणादिस्तोत्रभणनम्, उत्थाय पञ्चम० पडि. भावत्थयठवणारिहंतत्थयच उतित्थयनाणत्थयसिद्धत्थयअणुजाणावणियं नंदिकडावणियं सत्तावीसुसासो कायोत्सर्गः कार्यः, पारित्ता चउवीसत्थयभणनं, नमस्कारपाठो वार ३, सूरिर्निषद्यायामुपविश्य भो भो ! देवाणप्पिया ! इत्यादिगाथोक्तां देशनां कृत्वा त्रिसन्ध्यं चैत्यवन्दनं साधुवन्दनं चेत्यभिग्रहो देयः, ततोऽभिमन्त्र्य गन्धान सप्त गन्धमुष्टीः नित्थाग्गपारगा होहित्ति भणन् शिरसि प्रक्षिपति, ततोऽक्षतानभिमन्त्रयते, तत्समये सुरभिगन्धाढ्याम्लानसितपुष्पग्रथिता माला जिनप्रतिमापादोपरि न्यस्या, उत्थाय सूरिर्जिनपादेषु गन्धान क्षिपति, सन्निहितसाधुसाध्वीश्रावक श्राविकाजनस्य गन्धान अक्षतान् वा ददाति, नमस्काराद्यनुज्ञार्थं प्रदक्षिणात्रयं, नित्थारगपारगा होहि गुरुगुणेहि वडाहित्ति गुरुदाते, संपूर्णमनोरथो जातोऽसि धन्यः पुण्यभागिति वदन् जनोऽपि तच्छिरसि
Jain Education Interation
For Private & Personal use only
www.jainelibrary.org