________________
मस्ता
॥३॥
जव्हेरी, एतदाख्यस्य " जैनपुस्तकोडारकोशात् " जातम् उक्तश्रेोष्ठिवर्येण स्वदेहावसानावसरे शुभमार्गव्ययार्थं यथाशक्ति ॐ निष्कासितं वसु, तेन कार्यनिर्वाहकै : (ट्रस्टी) संस्थापितः पुस्तकोद्धारकोशः ( फण्ड ) बहवः सन्ति जैनशास्त्रीयग्रन्था इति नास्ति मुखतः कथनप्रयोजनम्; किन्तु दुर्बलकालयोगादिमे नष्टप्रायतामनुभवन्त आसते; तस्मादेव संस्कृतप्राकृतविद्यालाभविषये न्यूनता समुपलब्धा; तत एवाक्षरचणानां विद्याचणानामप्यभावप्रायता समजनि; अत एव कालाननुकूलत्वेन धार्मिकशिक्षणाभावोऽपि संहृत इति वक्तुं सुकरम्; अपिच तद्ग्रन्थरक्षणकार्य येष्वापतितं तन्मध्यात्कैश्चित् सर्वभावेन गुप्ता एव कृतास्ते, तेनानेके ग्रन्था नामावशेषतां प्राप्ता इति, संशो धनप्रकाशने अप्यतिदुश्श कतामापतिते ग्रन्थानाम्; परन्त्विदमतीव समीचीनं यदेतद्धर्मज्ञानकोश (फण्ड) स्थापनम् ; एतस्मात्प्रत्येक जैनग्रन्थोद्धारो भविष्यतीति सम्भाव्यते, अत्रस्थधनपरिमाणमेकलक्षं राजतीसुद्राः प्रायस्सञ्जाता इत्यनुमीयते तत्कलया भविष्यति पुस्तकसम्मुद्रणादिकार्यमिति मन्ये, यथाशक्ति कृतेऽपि प्रयत्ने ग्रन्थकाराभिधानलब्ध्यभावेन “ इति श्रीपूर्वाचार्यप्रणीता यतिप्रतिक्रमणवृत्तिः " इति ग्रन्थान्ते लेखनमापतितं निरुपायवशादेव. एतत्पुस्तकशोधनविषये मदृष्टिदोषवशादज्ञानतो मुद्रणदोषाद्वा सीसकाक्षरयोजकदोषाद्वा यानि स्खलितानि तानि निर्मत्सरैः पक्षपातरहितैः सङ्ख्यावद्भिः शोधनीयानीति विनयेन प्रार्थयते.
मि. माघ शु. १ भौमे
वीर, २४३७.
Jain Education
For Private & Personal Use Only
पं० केशरविजयगणिः प्रान्तिज - ( गुर्जर देशे . )
वना,
11711
jainelibrary.org