SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ स्तत्र भयं मोहनीयप्रकृतिसमुत्य आत्मपरिणामस्तस्य स्थानान्याश्रया इहलोकादीनि तद्यथा “ इहपरलोगायाणं अकम्ह आजीव मरणमासिलोए" तत्रेहलोकभयं समानजातीयान्मनुष्यादेः सकाशाद्भयं । परलोकभयं तु परस्मात्तिर्यगादेः२। आदीयत इत्यादानंधनं तदर्थं चौरादिभ्यो यद्भयं तदादानभयम् ३ । अकस्मादेव बाह्यनिमित्तानपेक्षमेव गृहादिस्थितस्य राज्यादौ वा तदकस्माद्भयम् ४ । आजीविकाभयं तु निर्द्धनः कथं दुर्भिक्षादावात्मानं धारयिष्यामीति ५ । मरणाद्भयं प्रतीतमेव ६ । अश्लाघाभयमयशोभयमित्यर्थः । तथा अष्टभिर्मदस्थानस्तत्र मदो मानस्तस्य स्थानानि तद्यथा “जाई कुलबलरूवे तव इस्सरिए सुए लाभे" | तथा नवभिब्रह्मचर्यगुप्तिभिस्ताश्चेमाः ब्रह्मचारिणा गुप्त्यनुपालनपरेण । न स्त्रीपशुपंडकसंसक्ता वसतिरासेवनीया? । न स्त्रीणामेकाकिनां कथा कथनीया २ । न स्त्रीणां निषद्या सेवनीया उत्थितानां तदासने नोपवेष्टव्यमित्यर्थः३ । न स्त्रीणामिन्द्रियाण्यालोकनीयानि ४। न स्त्रीणां कुड्यांतरितानां मोहनसंसक्तानां कणितध्वनिराकर्णयितव्यः ५ । न पूर्वक्रीडितानुस्मरणं कर्त्तव्यं ६ । न प्रणीतं भोक्तव्यं स्निग्धमित्यर्थः ७। नातिमात्राहारोपभोगः कर्त्तव्यः ८ । न विभूषा कार्या ९ इति नव । उक्तं च " वसहिकहनिसिजिन्दियकुडिन्तरपुव्वकीलियपणीए। अइमायाहारविभूसणा य नव वंभगुत्तीओ" ॥ दशविधे श्रमणधर्मे श्राम्यतीति श्रमणो यतिस्तपस्वी तस्य धर्मः क्षान्त्यादिलक्षणस्तस्मिन् योऽतिचारः इति भावना, दशविधत्वं च धर्मस्य " खन्ती य मद्दवजव मुत्ती तव सञ्जमे य बोधव्चे । सचं सोयं आकिञ्चणं च बंभं च जइधम्मो" तत्र शान्तिः क्रोधविवेकः १ । मृदोर्भावो मार्दवं मानत्यागः २ । ऋजोर्भावः आर्जवं मायात्यागः ३ । मोचनं मुक्तिर्लोभपरित्यागः ४ । तपोऽनशनादि द्वादशधा५। संयमश्चाश्रवनिरोधलक्षणः ६। सत्यं प्रतीतं ७ । शौचं संयम प्रति निरुपलेपता ८ । आकिञ्चन्यं कनकादिरहितता ९ । ब्रह्म च ब्रह्मचर्य च १०। एष यतिधर्मः। एकादशभिरुपासकप्रतिमाभिरिति । उपासकाः श्रावकास्तेषां प्रतिमाः दर्शनादिगुणयुक्ताः कार्या इत्यर्थः । ताश्चैताः “दसणवयसामाइयपोसहपडिमाअबंभसचित्ते । आरंभपेसउदिट्ठवज्जए Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600128
Book TitleShraman Pratikraman Sutravrutti
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages38
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy