SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ जनीम् ॥ २६ ॥ साधिकत्वं चात्र परिपूर्णचर्मरत्नपिधायकत्वेनेति जम्बूप्र० वृ० ॥ इति छत्ररत्नं ॥ चर्मरत्न भवेच्चारु, श्रीवत्साकारबन्धुरम् । मुक्तातारार्द्धचन्द्रादि चित्रश्चित्रं समन्ततः ॥ २७ ॥ समग्रचक्रभृत्सैन्योद्वहनेऽपि मनागपि । न न्यञ्चति द्विषच्छस्त्रदुर्भदं वज्रचर्मवत् ॥ २८॥ महानद्यम्भोधिपारप्रापकं यानपात्रवत् । तत्कालं गृहपत्युप्तशाकधान्यादिसिद्धिकृत् ॥ २९ ॥ तादृक्प्रयोजने ह्यस्मिन् , धान्याद्युप्तमहर्मुखे । लुनाति सायं निष्पन्नं, रत्नं कौटुम्बिकापणीः ॥ ३० ॥ द्विहस्तमानमप्यतत्, स्पृष्टं विस्तारकाविणा । व्यामोति योजनानि द्वादशैतदधिकानि वा ॥३१॥ ननु-चक्रिसैन्यावकाशाय, व्यासो द्वादशयोजनः। अस्य स्यादुचितो यचाधिक्यं तत्तु निरर्थकम् ॥ ३२ ॥ अत्रोच्यते-सत्येव किञ्चिदाधिक्ये, सुखं तिष्ठति सा चमूः । स्याचैवं छत्रयोगेऽस्य, संपुटत्वं निरन्तरम् ॥ ३३॥ तथोक्तं-चर्मच्छत्रयोरन्तरालपूरणायोपयुज्यते सोऽधिकविस्तार इति जम्बूप्र० वृ०॥श्रीवत्साकारमप्येतन्नानाकारं यथाक्षणम् । स्यात्ततश्छत्रयोगस्य, संपुटत्वं न दुर्घटम् ॥ ३४ ॥ श्रूयते भरतक्षेत्रार्द्धस्योदीच्यस्य साधने । तत्रत्यम्लेच्छपक्षीयैर्नागैर्मेघमुखा - १० भिधैः ॥ ३५ ॥ मूशलस्थूलधाराभिः, सप्ताहानि निरन्तरम् । वृष्टौ कृतायां भरतचक्रिसैन्यमहातये IS ॥ ३६॥ स चक्री छत्रचर्मभ्यां, कृत्वा संपुटमद्भुतम् । सैन्यमस्थापयत्तत्र, वेश्मनीवानुपद्रवम् ॥ ३७॥ त्रिभिविशेषकम् । पार्थिवत्वेऽपि तत्साम्याचर्मेति व्यपदिश्यते । अन्यथाऽस्य श्रुतख्यातमेकाक्षत्वं विरुध्यते ॥ ३८॥ दण्डोऽप्येवं पार्थिवस्तत्साम्यात्तव्यपदेशभाक।भाव्यमेवं पार्थिवत्वं, सप्तानामपि धीधनैः ॥३९॥ इति चर्म Jain Education Brainelibrary.org For Private Personal Use Only l
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy