SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Jain Education यन्त्येवं प्रणताश्चक्रवर्तिनम् । जिग्ये क्षेत्रमिदं खामिन् !, चतुरन्तावधि त्वया ॥ ६८ ॥ तत्कुर्मश्चक्रवर्त्तित्वाभिषेकं समहोत्सवम् । यथा वो रुचिरित्येवं, चक्री तदनुमन्यते ॥ ६९ ॥ अथ राज्याभिषेकार्थमष्टमं कुरुते तपः । | अभिषेकास्पदं सज्जीकारयत्याभियोगिकैः ॥ ७० ॥ राजधान्यास्ततस्तेऽस्या, ऐशान्या विमलीकृते । भूतले रचयन्त्युच्चमभिषेकाय मण्डपम् ॥ ७१ ॥ रत्नबद्धक्षितेस्तस्य, रत्नस्तम्भशतस्पृशः । विकुर्वन्त्यभिषेकार्थं, मध्येपीठं मणीमयम् ॥ ७२ ॥ चतुर्दिशं त्रिसोपानप्रतिरूपकशालिनः । मध्येऽस्य रचयन्त्येकं, रत्नसिंहासनं महत् ॥ ७३ ॥ इत्यादि विरचय्यैते, नत्वा शंसन्ति चक्रिणम् । प्रभो ! सज्जीकृतोऽस्माभिरभिषेकाय मण्डपः ॥ ७४ ॥ ततश्चक्री गजारूढः, सोत्सवं सपरिच्छदः । उपेत्य मण्डपे तस्मिन्, कृत्वा पीठप्रदक्षिणाम् ॥ ७५ ॥ तत्र प्राच्यत्रिसोपानपथेनारुह्य सोत्सवम् । सिंहासनमलङ्कृत्य तिष्ठति प्राङ्मुखः सुखम् ॥ ७६ ॥ अधोत्तर प्रोष्ठपदाप्रमुखे विहितोडुनि । विजयादौ मुहूर्त्ते च तेऽभिषिञ्चन्ति चक्रिणम् ॥ ७७ ॥ तथा चोक्तं- “अभिषिक्तो महीपालः, श्रुतिज्येष्ठाल घुध्रुवैः । मृगानुराधा पौष्णैश्च, चिरं शास्ति वसुन्धराम् ॥७८॥” विजयमुहूर्त्तश्चैवं - द्वौ यामौ घटिकाहीनौ द्वौ यामौ घटिका धिकी। विजयो नाम योगोऽयं, सर्वकार्यप्रसाधकः ॥ ७९ ॥ प्राग्वर्णितोऽभिषेको यः, क्षेत्रलोके सविस्तरः । वैमानिकानामुत्पत्ती, सर्वोऽप्यत्रानुवर्त्यताम् ॥८०॥ तथाभिषिक्तं तं गन्धकाषाय्या रूक्षिताङ्गकम् । सर्वाङ्गालङ्कृतं कुर्युर्भूषणैर्मुकुटादिभिः ॥ ८१ ॥ जय चक्रिन् ! जय स्वामिन्!, जयातुलपराक्रम । राजराज ! जय प्रौढपुण्य ! भद्रं सदाऽस्तु ते ।। ८२ ।। त्वया जितमिदं क्षेत्रं, चतुरन्तं महौजसा । तत्पालयासंख्यवर्षको For Private & Personal Use Only १० १४ w.jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy