________________
नन्दिताः सहसाऽभवन् । प्रावृषेण्यां मयूरौघा, घनाघनमिवोन्नतम् ॥ ६२ ॥ राज्ञोचे बलसारस्य, कुमारस्यास्ति नाम किम् ? । उक्तं तेन महाराज !, बल इत्यभिधांव्यधाम् ॥६३॥ इतश्चाङ्के धृतो राज्ञा, सूरपालेन सोऽग्रहीत् । दीनारैकशतग्रन्थि, पितामहकरस्थितम् ॥ ६४ ॥ पितामहेन तन्नाम, तस्यालापयता तदा । समक्षं सर्व लोकानां, चक्रे शतबलाभिधा ॥ ६५ ॥ तस्य सर्वस्वमादाय, जीवन्मुक्तः स सार्थपः । सकुटुम्बः कृतं भूपैर तैरात्मीयभाषितम् ॥ ६६ ॥ सूरपालो जगादाथ, किञ्चित्समधिकं किल । वर्ष वियोगभाजोऽद्य, वत्सायास्तदिनादभूत् ॥ ६७॥ वर्षान्ते सह कान्तेन, नूनं मलयसुन्दरी । मिलिष्यतीति तज्ज्ञानिवचनं मिलितं पुनः ॥ ६८ ॥ सिद्धराजेन तत्सर्वं, राज्यं निजभुजार्जितम् । सूरपालनरेन्द्राय, जनकाय समर्पितम् ॥ ६९ ॥ मिथः स्नेहेन तौ यावत्, सकुटुम्बावुभावपि । राजानौ । राज्यकार्याणि, कुर्वाणौ तत्र तस्थतः ॥ ५७० ॥ तावत्तत्र समायातो, विहरन् भुवि केवली । भवान्तरकृतप्राणिपुण्यपापैकदर्पणः ॥ ७१ ॥ शिष्यः श्रीपार्श्वनाथस्य, नाम्ना चन्द्रयशा गुरुः । बहुसाधुपरीवारो, बोधको निर्वृते । जिने ॥ ७२ ॥ युग्मम् । सकुटुम्बावुभौ भूपौ, तौ विज्ञाततदागमौ । जग्मतुर्वन्दितुं सूरिं, सर्वपौरजनान्वितौ । ॥ ७३ ॥ केवली कथयामास, धर्म भवनिवारकम् । ततः प्रस्तावमासाद्य, पृष्टं सूरेण भुभूजा ॥ ७४ ॥ भगवन् ! |
Jain Educationala
For Private Personal Use Only
mininelibrary.org