SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ ॥२॥ Jain Education इन्द्रनीलस्य काचस्य, मरालस्य बकस्य च । कल्पद्रोश्च करीरस्य, तेजसस्तमसोऽपि च ॥ २२ ॥ यथा दुग्धस्य तक्रस्य, दृश्यते महदन्तरम् । तथा श्रीजैनधर्मस्य, मिथ्याधर्मस्य चान्तरम् ॥ २३ ॥ ॥ त्रिभिर्विशेषकम् ॥ कैरावतः क्व च हुण्डः ?, क्व समुद्रः क्व गोष्पदम् । क्व गरुत्मा च क्व मशकः ?, क्व नागेशः क्व राजिलः ?||२४|| क पीयूषं क्व सौवीरं ? क मेरुः क्व च सर्षपः ? | क श्रीजिनोदितो धर्मः, क चान्यो हिंसया युतः ॥ २५ ॥ काव्यम् - पृथ्वीकायाम्बुकाया जिनवरगदितास्तेजसोवायुकाया, वानस्पत्याश्च जीवास्त्रिभुवनविदिता द्वीन्द्रियायास्त्रसाश्च । रक्षन्ते बन्धुबुद्धया निजसदृशतया यत्र तु प्राणभूता, धर्माणामेष चूडामणिरिव जयति श्रीजिनेशस्य धर्मः ॥ २६ ॥ आकृष्टिर्विद्या लक्ष्मीणां, वज्रं दारिद्रयभूभृतः । कार्मणं शर्मणामेकं, धर्मः स्वर्गापवर्गदः ॥ २७ ॥ धर्मस्यैतस्य माहात्म्यमुच्यते लेशतो मया । पादप्रसारणं यस्माद्भवेत्सौड्यनुमानतः ॥ २८ ॥ For Private & Personal Use Only महा. ॥ २ ॥ jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy