________________
समर्पणपत्रम्। अयि तपागच्छगगनमार्तण्डाः! सैद्धान्तिकतार्किकवैयाकरणचक्रवर्तिनः! सततं शास्त्रसंशोधनकर्मनिरताः! समस्तमुनिमण्डलाय-आगमवाचनादातारः! पुण्यस्मरणाः! सैलानाराज्यनरेशप्रतिबोधकाः !
आगमोद्धारका आचार्यवर्याः १००८ श्रीमदानन्दसागरसूरीश्वरपादाः! भवत्सदुपदेशादद्यावधि प्रकाशितप्राकृतसंस्कृतादिशास्त्रग्रन्थसमूहः 'श्रेष्ठी देवचन्द्र लालभाई' इत्यभिधानः 'जैनपुस्तकोद्धारभाण्डागार' आगमप्रकाशनकारिणी श्रीमती आगमोदयसमितिनाम्नी संस्था च प्रादुर्भूय महोपकारकं प्रकाशनकार्यं कुर्वातेतराम्, अत एव परोपकारप्रवणानां तत्रभवतां पवित्र करकमलेषु समर्प्यतेऽस्माभिरिदं सर्वश्रुतप्रधानं सूत्रं भवदभिलाषाहतेऽपि
अस्मदपरि च सर्वदा भवन्तु कृपाकूपारा भवन्त इत्यभ्यर्थनापूर्वकं वयं विरमामः । सूर्यपूरे विक्रमसंवति १९८९
भवदीयचरणसेवासमुत्सुकाः तमे आषाढमासे पूर्णिमायां
जह्वेरीत्युपाह्वः साकरचन्द्रात्मजो जीवनचन्द्रः शुक्रवासरे.
अन्ये मानदसञ्चालकाश्च ।
ROCCARBORECASARGAOKESCORECASCC
CARRESS
4