SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ यवनसम्राट्पीरोजशाह-प्रतिबोधकश्रीखरतरगच्छाचार्यश्रीमजिनप्रभसूरिविनेयवर श्रीजिनदेवसूरिनिर्मिता श्रीकालकसूरिकथा ॥ KADCASCR कालिकाचार्यस्य प्रतिज्ञा %ALESALESASARORSCREEG ॥ ऐ०॥ मोहान्धकारप्रागभारा-पहाररविमण्डलम् । अमानबहुमानेन, वर्द्धमानं नमाम्यहम् ॥१॥ पञ्चमीतश्चतुझं यै-श्चक्रे | पर्युषणामहः । तेषां कालकसूरीणां, चरितं किञ्चिदुच्यते ॥२॥ धरावासमिति ख्यातं, पुरं सुरपुरोपमम् । तत्राभूभूपतिर्वैरि-सिंहः सिंहपराक्रमः॥३॥ देव्यस्य सुन्दरी रूप-सम्पदा सुरसुन्दरी। तयोः कालकनामाभूत् , सूनुरन्यूनविक्रमः॥४॥ सोऽन्यदा बहिरुद्याने, हयान् रमयितुं ययौ । सूरिं गुणाकरं तत्र, धर्ममाख्यान्तमैक्षत ॥ ५॥ तस्यान्तिकमथो गत्वा, धर्म शुश्राव शुद्धधीः । | सद्यः संसारवासाच्च, परं वैराग्यमासदत् ॥६॥ पितरौ समनुज्ञाप्य, भटपञ्चशतीयुतः। सरस्वत्याख्यया स्वस्रा, सार्द्ध व्रतम-12 | शिश्रियत् ॥७॥ शिक्षा द्विधाऽभ्यस्तवन्तं, श्रुताकृपारपारगम् । निवेश्य तं निजे पट्टे, स्वग्गातिधिरभूद्गुरुः ॥८॥ क्रमेण कालका-18 चायेंः, साधुपञ्चशतान्वितः । क्ष्मां पुनानः पदन्यासः, पुरीमुज्जयिनी ययौ ॥९॥ आरामे समवासापर्षीद्, भगवान् सपरिच्छदः । तच्चरित्रैः पवित्रैश्च, चित्रीयन्ते स्म नागराः॥१०॥ गई भिल्लो नृपोऽद्राक्षीत् , समायान्ती बहिर्भुवः। अन्यदाऽऽर्या कृताश्चर्यरूपां सूरेः सहोदरीम् ॥ ११॥ कामग्रहगृहीतस्तां, हठादानाय्य पूरुषः । न्यधादधन्यः शुद्धान्ते, सूरिर्विज्ञातवांश्च तत् ॥ १२॥ आस्थानं द्र स्वयमागत्य, गुरुः शान्तमनास्ततः । तं दुष्टनृपमाचष्ट सुधामधुरया गिरा ॥ १३ ॥ त्वय्यन्यायरते राजन् !, सबै स्यादसमञ्जसम् । मुञ्चैतां व्रतिनी तस्मात् , परत्रेह च शर्मणे ॥१४॥ कोमलैर्वचनैरेवं, गुरुणा भणितोऽपि सः । प्रधानार्यमाणोऽपि,मुमोच न तपोधनाम् ॥ १५॥ तेजः क्षात्रमिवारूढो, भ्रकुटीविकटाननः । सभायां कालकाचार्यः, प्रतिज्ञामकरोदिमाम् ॥ १६॥ A CREASAGARCANC in Education Internationa For Private & Personel Use Only www.jainelibrary.org
SR No.600077
Book TitleKalpasutram Barsasutram Sachitram
Original Sutra AuthorBhadrabahuswami
AuthorMeghsuriji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages218
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy