________________
अञ्जन प्र. कल्प
॥१५६॥
Jain Education I
अति सुरभिबहुलपरिमल-वासितपानेन मृगमदस्नानैः । मन्त्रैः कृतैः पयोभिः, स्नपयामि शिवाढयजिनबिम्बम् ॥ १८ ॥ ( आर्या ) ततः पुष्पाञ्जलिक्षेपः
नानासुगन्धपुष्पौध- रञ्जिता चञ्चरीककृतनादा । धूपामोदविमिश्रा,
पततात्पुष्पाञ्जलिम् ॥१९॥ ॥ (,, )
ततः शुद्धजलकलशैः अष्टोत्तरशत- १०८ स्नानविधिः
चक्रे देवेन्द्रराजैः सुरगिरिशिखरे योऽभिषेकः पयोभि-नृत्यन्तीभिः सुरभिललितपद्गमं तूर्यनादैः सुदीप्तैः । कर्तुं तस्यानुकारं शिवसुखजनकं मन्त्रपूतैः सुकुम्भैर्विम्बं जैनं प्रतिष्ठाविधिवचनपरः स्नापयाम्यत्र काले ॥१॥ (स्रग्धरा) ततोभमन्त्रितचन्दनेन सूरिर्वामकरधृतप्रतिमां दक्षिणकरेण सर्वाङ्गमालेपयति, कुसुमारोपणं, धूपोत्पाटनं वासनिक्षेपः, सुरभिमुद्रादर्शनं पद्ममुद्रा ऊर्ध्वा दर्श्यते, अञ्जलिमुद्रादर्शनं च ततः प्रियङ्गुकर्पूरगोरोचनाहस्तलेपः अधिवासनामन्त्रेण करे ऋद्धिवृद्धिसमेत मदनफलाख्यकङ्कणबन्धनं, स चायम् - "ॐ नमो खीरासवलद्धीणं ॐ नमो महुयासवलद्वीणं ॐ नमो भिसोईणं ॐ नमो पयाणुसारीणं ॐ नमो कुट्टबुद्धीणं जमियं विज्जं पउंजामि सा मे विज्जा पसिज्झउ ॐ अवतर २ सोमे २ कुरु २ ॐ वस्तु निवग्गु सुमणे सोमणसे महुमहुरए कविले ॐ कः क्षः स्वाहा " अधिवासनामन्त्रः, यद्वा 66300 नमः शान्तये हुं क्षं हूं सः " कङ्कणमन्त्रः ५ । अधिवासनामन्त्रेणैव मुक्ताशुक्त्या विम्बे पञ्चाङ्गस्पर्श:- मस्तक १ खांध २ जानु २ वार ७, चक्रमुद्रया वा । धूपथ निरन्तरं दातव्यः, परमेष्ठिमुद्रां सूरिः करोति, पुनरपि जिनाद्दानं, ततो निषद्यायामुप
For Private & Personal Use Only
॥१५६॥
ainelibrary.org