________________
Jain Education
॥ श्रीजिनाय नमः ॥
श्रीमद्धरिभद्रसूरि सूत्रितस्य श्रीपञ्च वस्तुग्रन्थस्य स्वोपज्ञवृत्तिकस्य उपोद्घातः ।
शेमुषीधनाः ! स्वीक्रियतामिदं ग्रन्थरत्नमुपदीक्रियमाणं मुद्रयित्वा प्रन्थरत्नता चास्य विधातुः विषयस्य प्रामाण्यतायाश्चानन्यतुल्यत्वात्, के विधातार इति चेत् परः सहस्रप्रन्थोद्धार सौधसूत्रणसूत्रधारायमाणाः श्रीमन्तो हरिभद्रसूरयः, तत्रभवतां सत्ताकालादिविषयो निर्णयश्च योगदृष्टिसमुच्चयोपमितिभवप्रपञ्च कथापञ्चाशक प्रस्ताव नादावस्माभिरुल्लिखित: श्रीधर्म संग्रहण्यादिषु च तत्तत्प्रस्तावकैरुल्लिखितः, न विवादो विदुषां श्रीमतां सत्ता समयस्य वैक्रमीयषष्टशताब्द्यां भावित्वे, विचारसारादिग्रन्थकारा अपि एतदेवाख्यान्ति, ततः सुस्थमेतत् - श्रीमन्तः वैक्रमी षष्टशताब्दीकाले सत्तावन्तः तथा च श्रीमतां पूर्वधरानेहो निकटकालभावित्वं न दुर्जेयं, अत एव च श्रीमद्भिरत्रापि प्रकरणे अनुयो - गानुज्ञाधिकारे दृष्टिवादोद्धृतस्य धर्मविषयक कषादिभेदस्य स्तवपरिज्ञायाश्च तथाविधाया व्याख्याकरणमन्वज्ञायि, यतस्त आहुः एकोनविंशति| विंशत्यधिकसहस्रतमगाथयोः तद्वृत्तौ च
“दिट्ठिवायाई । तत्तो वा निज्जूढं” ततो वा-दृष्टिवादादेः निर्व्यूढं- आकृष्टं ॥ निर्व्यूढलक्षणमाह - "सम्मं धम्मविसेसो जहि कस अतावपरिसुद्धो । वणिज्जइ निज्जूढं " - सम्यग् निर्व्यूढमेवंविधं भवति मन्थरूपं तच्च उत्तमश्रुता दि
For Private & Personal Use Only
www.jainelibrary.org