________________
AXCLECRECORDROGENRELCOMGANA
अब्भत्था सुहजोगाअसवत्ता पायसो जहा समयं । एसो इमस्स उचिओ अमरणधम्मेहिं निद्दिट्टो॥१५९०॥ ता आराहेमु इमं चरमं चरमगुणसाहगं सम्मं । सुहभावविवड्डी खलु एवमिह पवत्तमाणस्स ॥१५९१॥ उचिए काले एसा समयंमिवि वण्णिआ जिणिंदेहि । तम्हा तओ ण दुट्ठा विहिआणुढाणओ चेव॥१५९२॥ ___ आह-आत्मवधनिमित्तमेषा-संलेखना कथं युज्यते ?, यतिजनस्य समभाववृत्तेः सतः, तथा समयार्थविरोधतश्चैवेति गाथार्थः ॥ ८३ ॥ विरोधमाह-त्रिविधा अतिपातक्रिया, कथमित्याह-आत्मपरोभयगता यतो भणिता समये बहुशोऽनिष्टफलदेयं क्रिया धीरैरनन्तज्ञानिभिः-सर्वज्ञैरिति गाथार्थः ॥ ८४ ॥ भण्यते-सत्यमेतत्-त्रिविधातिपातक्रियेति, नत्वेषा संलेखना क्रिया आत्मवधनिमित्तेति, कुत इत्याह-'तल्लक्षणविरहात्' आत्मवधक्रियालक्षणविरहात्, विरहश्च विहितानुष्ठानभावेन हेतुनेति गाथार्थः॥८५॥ या खलु प्रमत्तयोगात् सकाशात् नियमाद्रागादिदोषसंसक्ता स्वरूपतः, आज्ञातो बहिर्भूता-उच्छास्त्रा सा भवत्यतिपातक्रिया, इदं लक्षणमस्या इति गाथार्थः ॥८६॥ या पुनरेतद्वियुक्ता क्रिया शुभभावविवर्द्धनी च नियमेनायत्यां सा भवति शुद्धक्रिया, कुतः? तल्लक्षणयोगत एवेति गाथार्थः ॥ ८७॥ प्रतिपद्यते चैनांसंलेखनक्रियां यः प्रायः कृतकृत्य एवेह जन्मनि, निष्ठितार्थः, शुभमरणमात्रकृत्यः, यदि परं तस्यैषा जायते यथोक्तासंलेखना शुद्धक्रिया वेति गाथार्थः ।। ८८॥ मरणप्रतीकारभूतषा, एवं चोक्तन्यायान्न मरणनिमित्ता, यथा गण्डच्छेदक्रिया दुःखरूपाऽपि नात्मविराधनारूपेति गाथार्थः ॥ ८९ ॥ अभ्यस्ता शुभयोगाः औचित्येन असपत्ना यथाऽऽगमं प्रायशो
Jain Education inte
For Private & Personal Use Only
Mww.jainelibrary.org