________________
पाचारनिकरः
२७२॥
Jain Educatio
येत् ॥ ४९ ॥ इति दानार्हद्रव्यप्रायश्चित्तं संपूर्णम् ॥ ॥ उषित्वा म्लेच्छदेशेषु म्लेच्छीभूय परिग्रहात् । म्लेच्छबन्दिनिवासाच प्रमादादभक्ष्यभक्षणात् ॥ ५० ॥ अपेयपानतश्चैव म्लेच्छादि सहभोजनात् । परजातिप्रवेशाच विवाहकरणादिभिः ॥ ५१ || महाहत्याविरचनात्कुप्रतिग्राहिसंगमात् । कुप्रतिग्रहतः शुद्धिः स्यात्पूर्वोक्तादिशोधनात् ॥५२॥ इति विशोधनार्हद्रव्यप्रायश्चित्तम् || || सर्वेभ्यो द्रव्यदोषेभ्यः शुद्धिमाहुर्मनीषिणः । नृपच्छतलस्नानात्स्पर्शाद्धिर्मचरोरपि ॥५३॥ एतेभ्यो व्यतिरिक्तं च प्रायश्चित्तं तदान्तरम् । विज्ञेया पूर्वकथिता तच्छुद्धिर्भावशोधनात् ॥ ५४ ॥ द्रव्यभावभवे चैव प्रायश्चित्ते समस्त के । यावत्रेलं भवेद्दोषस्तावद्वेलं विशोधनम् ॥ ५५ ॥ बालस्य द्वादशाब्देभ्यः परं जरत एव च । देयं वर्षनवत्यर्वाक् प्रायश्चित्तं मुनीश्वरैः ॥५६॥ प्रायचित्ते च महति विचीर्णे तपआदिभिः । अन्यत्पुनस्तत्समाप्तौ देयं भावविशेषत: ॥ ५७ ॥ उपवास सहस्राच्च न परालोचना क्वचित् । शतोपवासादूनं च प्रायश्चित्तं न पिण्डितम् ||१८|| ज्ञानाचारादिक्रमेण व्रतादीनां क्रमेण च । प्रष्टव्यं गुरुणा पापं साधुतः श्रावकादपि ॥ ५९ ॥ छउमत्थो मूढमणो कित्तियमित्तंपि संभरयि जीवो। जं च न समरामि अहं मिल्छा मे दुक्कडं तस्स ॥ ६०॥ जं जं मणेणं बद्धं जं जं वायाए भासियं किंचि । जं जं कारण कयं मित्था मे दुक्कडं तस्स ॥ ६१ ॥ आउहिआउ विद्या दप्पो पुण होइ वग्गणाईओ । कंदष्पो अप्पमाओ कप्पो पुण कारणे करणे ॥ ६२ ॥ ॥ तथा सूरिर्यदि एकाकी बहिर्भूमिं गच्छति तदा शिष्याणां उपवासः ४१ गुरुर्यदि भिक्षाटनं करोति तदा शिष्याणां उपवासः ४१ मुख्यसाधुः गुरून् भिक्षां गच्छतो न
For Private & Personal Use Only
ational
॥ २७२॥
www.jainelibrary.org