________________
आचार
दिनकरः ॥२६७॥
दशसु कर्मादानेषु सर्वथा ||६६|| प्रत्येकं पुण्यमादिष्टं पैशुन्ये परनिन्दने । अभ्याख्याने तथा रोगे प्रत्येकं सजलं विदुः ॥ ६७ ॥ चतुर्विधेऽनर्थदण्डे गुरुर्गुरुभिरावृतः । षण्डादीनां विवाहे च तथैवान्यविवाहने ॥ ६८ ॥ प्रत्येकमेतयोः शीतं पूर्वार्धमपरे पुनः । नियमे सति सामायिकस्याकरणभङ्गयोः ॥ ६९ ॥ उपवासोऽम्बुवा दिस्पर्शे तत्संख्यया लघुः । राज्ञां धर्मश्च देशावकाशिभङ्गे विलम्बकः ॥ ७० ॥ नियमे सति तत्काले पौषधाकरणे पुनः। साधुदानाद्यकरणे शोधनाथ गुरुः स्मृतः ॥ ७१ ॥ ॥ अथ पौषधभङ्गानां प्रायश्चित्तमुदीर्यते । नैषेधिक्यायकरणे स्थण्डिले वाप्रमार्जिते ॥ ७२ ॥ कफमूत्रविदुत्सर्गे पृथिव्या अप्रमार्जिते । अप्रमार्जितवस्तूनां ग्रहणक्षेपयोरपि ॥७३॥ अमार्जितकपाटानामुद्घाटन पिधानयोः । अप्रमार्जितकायस्य क्वचित्कण्डूयने तथा ||७४ || अप्रमार्जितकुड्यादिस्तम्भावष्टम्भनेपि च । ईर्यापथाप्रतिक्रमे उपध्यप्रतिलेखने || ७५ ॥ एतेषु सर्वेष्वाख्यातं विरसं दोषघातनम् । परगात्रस्य संघट्टे ज्योतिषः स्पर्शने लघु ॥ ७६ ॥ विनालोमपटीं विप्रुदस्पर्शने लघु चेष्यते । पाते च मुखवस्त्रस्य चतुःपादो विशुद्धिकृत् ॥७७॥ अप्रतिलेखिते स्थाने कृते मूत्रविसर्जने । दिवास्वापे च विज्ञेयकान्नं शुद्धिहेतवे ॥ ७८ ॥ एवं सामायिकेपि स्यात्प्रायश्चित्तं यथोचितम् । अथ श्राद्धावश्यकस्य प्रायश्चित्तमुदीर्यते ||७९ || आचार्यपृष्ट एकस्मिन्दते वदनकेऽरसः । द्वयोपूर्वार्धमाख्यातं त्रिषु प्रोक्तं सुभोजनम् ॥ ८० ॥ चतुर्षु चोपवासश्च वन्दनस्याविधौ गुरुः । कायोत्सर्गस्य पश्चाच्च करणे निर्मदो मतः ॥ ८१ ॥ कृते विरुद्वे - ध्यामकृते च सुभोजनम् । परेभ्यः पारिते पूर्वमपूर्ण पारिते तथा ॥ ८२॥ कामघ्नं सर्वथा त्यक्ते प्रतिक्रमणके
Jain Education national
For Private & Personal Use Only
| ॥ २६७॥
ww.jainelibrary.org