SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ ग्रन्थकर्तृप्रशस्तिः। 5CCACCASSAMASSACCOUS जयति प्रथमो नृपतिः प्रथमाचारप्रबोधको जगतां । प्रथमोऽहत्प्रथममुनिः प्रथमो देवाधिदेवानाम् ॥१॥ जयत्यनन्तविज्ञानज्ञानयुक्तिप्रकाशकः। भगवान् श्रीमहावीरस्तीर्थकृच्चरमः परम् ॥२॥ भूयाद्विविधसिद्धानामास्पदं गणनायकः । श्रिये तत्वविदां श्रीमानिन्द्रभूतिर्दयानिधिः ॥३॥ आषष्ठारान्मुनीन्द्राणां संहतिर्यस्य संततिः। श्रीवर्धमानान्तेवासी सुधर्माभूद्गणेश्वरः ॥४॥ गणाः संख्यातिगास्तस्माद्बभूवुः साधुशालिनः । तेभ्यः कुलानि शाखाश्च प्रसस्रुः प्रौढचेष्टितैः ॥५॥ तत्राभूत्कोटिकगणः श्रीमद्बज्रमुनीश्वरात् । वानीशाखा कुलं चान्द्रं तत्रापि परिपप्रथे ॥६॥ पूर्व श्रीहरिभद्राख्यः सूरीन्द्रो भद्रदर्शनः । तत्र वित्रस्तवादीभः पञ्चवक्रो व्यराजत ॥७॥ श्रीयाकिनीवदनसंभववाक्यलेशं सम्यग्विधाय हृदये विलसद्वयेन । येनावनं सुगतसाधुजनस्य चक्रे चित्रं तदत्र मुनयो विमृशन्ति चित्ते ॥८॥ देवचन्द्रस्ततः सूरिश्चन्द्रतां प्रत्यपद्यत । मोहान्धकारसंसारतापपीडितचेतसां ॥९॥ श्रीनेमिचन्द्रसूरीन्द्रो भूषयामास तत्पदं । तत उद्योतनः पट्टोद्योतं तस्य विनिर्ममे ॥१०॥ ततः श्रीवर्धमानाख्यः सरिदादिनां मदं। वर्धयन्वर्धयामास समस्तं जिनशासनं ॥११॥ श्रीमजिनेश्वरः सूरिर्जिनेश्वरमतं ततः। शरद्राकाशशिस्पृष्टसमुद्रसदृशं व्यधात्॥ १२॥ नवागवृत्ति Jain Education Inter For Private & Personal use only www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy