________________
आचारदिनकरः
॥ २६१ ॥
Jain Education Int
६ च । तत एतेषां क्रमेण व्याख्यानं व्याख्याय योजना कथ्यते यथा- पूर्व सामायिकं समस्य मणिलोष्टुकाञ्चनतृण स्त्रैण समलावण्यरूपस्य आयो लाभः समायः समायेन संस्पृष्टं सामायिकं । तच्च द्विधा सर्वविरतिर्देशविरतिश्च । तत्र सर्वविरतिरूपं सामायिकं पञ्चमहाव्रतनिशा भोजनात्यागष्ष्ठं पञ्चभावनायुक्तिर्निरतिचारपालनेन पञ्चसमितित्रिगुप्तिधारणेन सार्वसावद्ययोगत्यागेन धर्मवीरैर्यावज्जीवं धार्यमाणं भवति तदुच्चारदण्डकं यथाकरेमि भंते सामाइयं सवं सावज्जं जोगं पञ्चक्खामि जावज्जीवाए तिविहं तिविहेणं वायाए कायेणं न करेमि न कारवेमि करन्तंपि अन्नं न समणुजाणामि तस्स भन्ते पडिक्कमामि निन्दामि गरिहामि अप्पाणं वोसिरामि १ देशविरतिरूपं तु श्रावकद्वादशव्रतमध्यगतं शिक्षावतादिमं मुहूर्तमात्रं हृदि धारणीयं भवति । तदुचारणदण्डकं यथा - करेमि भंते सामाइयं सावज्जं जोगं पच्चक्खामि जावनियमं पज्जुवासामि दुविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि २ । तत्र सामाइकं तु महाफलं सर्वपापहरं ॥ यत उक्तमागमे - जो देइ कणयकोडिं अहवा कारेइ तुंगजिणभवणं । तस्स न तत्तिय पुण्ण जन्तिय सामाइए होइ ॥ तथाच - प्रणिहन्ति क्षणार्धेन साम्यमालम्ब्य कर्म तत् । यन्न हन्यान्नरस्तीव्रतपसा जन्मकोटिभिः ॥ १ ॥ कर्म जीवं च संश्लिष्टं परिज्ञातात्मनिश्चयः । विभिन्नीकुरुते साधुः सामायिकशलाकया ॥ २ ॥ रागादिध्वान्तविध्वंसे कृते सामायिकांशुना । स्वस्मिन्स्वरूपं पश्यन्ति योगिनः परमात्मनः ॥ ३ ॥ स्त्रिांति जन्तवो नित्यं वैरिणोपि परस्परम् । अपि स्वार्थकृते साम्यभाजः साधोः
For Private & Personal Use Only
विभागः २
आवश्यकविधिः
॥ २६१ ॥
www.jainelibrary.org