________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विविधविषयवादः
अतुल ज्ञानोबा मस्के अज्ञातकर्तृकोऽयं लघुग्रन्थः अद्यावधिरप्रकाशितो भाति। अस्मिन् लघुग्रन्थे अनेकान् प्रश्नान् समुपस्थाप्य जैनपरम्परामनुसृत्य प्रमाणभूतग्रन्थान् पर्यालोच्य समादधति ग्रन्थकारः स्वयमेव। यद्यपि ग्रन्थनाम नोपलभ्यते ग्रन्थे तथापि ग्रन्थगतविषायान् पर्यालोच्य अस्याः कृतेः नाम “विविधविषयवादः” इति स्थापितम्। अस्मिन् ग्रन्थे शुद्धक्षायिकनिरूपणम्, अशुद्धक्षायिकनिरूपणम्, रात्रौ प्रदीपविचारः, युगपज्जिनजन्मविचारः इत्येतान् दशविकल्पान् उत्सर्गापवादेन प्रत्यपादीत् ग्रन्थकारः । हस्तप्रतपरिचयः __इयं हस्तप्रतिः छह-कोटी-स्थानकवासी-जैनज्ञानभण्डार-माण्डवी (कच्छ) तः सम्प्राप्ता। हस्तप्रतस्थितिरुत्कृष्टा वर्तते । हस्ताक्षरं शोभनं दृश्यते। अस्य ग्रन्थस्य ४ पत्राणि (फोलीओ), प्रतिपत्रे ११ पङ्क्तयः, प्रतिपङ्क्तौ सम्भाविताक्षराणि २६ विद्यन्ते। ग्रन्थकर्तृविषये कापि विज्ञप्तिः नोपलभ्यते। सम्पादने आदौ सम्पूर्णः ग्रन्थः लिप्यन्तरितः। तदुत्तरं व्याकरणगतक्षतयः निष्कासिताः। विशेषनामानि नाम ग्रन्थनाम, व्यक्तिनाम, ग्रन्थकर्तुः नाम पृथ्वक्षरे स्थापितम्। ग्रन्थगतानि उद्धरणानि [Italic] मध्ये प्रदर्शितानि । तत्र तत्र विषयनिर्देशोऽपि [ ] अस्मिन् कोष्ठके कृतः। अपेक्षितः पाठः ( ) अस्मिन् कोष्ठके न्यस्तः।
यद्यपि लघुग्रन्थः तथापि बह्वर्थप्रतिपादकत्वाद्वाचकोपयोगी भवेदिति आशासे। क्षतयः सूचयन्ति विद्वांसः।
__[शुद्धक्षायिकनिरूपणम् ] [१] ननु सप्तक्षये क्षायिकमित्युक्तत्वात् सति क्षायिके कथं कृष्णश्रेणिकौ नरकं जग्मतुरिति। उच्यते-द्विधा क्षायिकं शुद्धमशुद्धं च। तत्रानयोरशुद्धं क्षायिकं तस्य सादिसपर्यवसितत्वाद् इत्यविरोधः। यदुक्तं नवपदप्रकरणवृत्तौ-क्षायिकस्य शुद्धाशुद्धभेदेन द्विभेदत्वात्। तत्रापायसद्व्यविकलानां भवस्थकेवलिनां मुक्तानां च या सम्यग्दृष्टिः तच्छुद्धं क्षायिकम्। तस्य च साद्यपर्यवसानत्वान्नास्त्यैव भङ्गः । यदाह गन्धहस्ती-भवस्थकेवलिनो द्विविधस्य सयोगायोगिभेदस्य सिद्धस्य च दर्शनमोहनीयसप्तकक्षयाविर्भूता प्रकटीभूता सम्यग्दृष्टी(ष्टिः) सादिरपर्यवसानेति ।
For Private and Personal Use Only