________________
Shri Mahavir Jain Aradhana Kendra
3:<]
www.kobatirth.org
- शुभ शरभार...........
यदयं तुच्छचित्तानामज्ञानां क्रूरकर्मणाम् ।
परदार- परद्रोह-- परपीडापरात्मनाम् ॥४१॥
इत्युक्ते मन्त्रिणाऽवोचन् गुरवो गौरवोचितम् ।
9
मन्त्रिन् ! नृपस्य व्यापारः, किमर्थं दृष्यते स्वया ! ॥ ४० ॥ युग्मम् |
तादात्विक सुखास्वादसादरीकृतचेतसाम् । नरकालेोकनेन्धानां बधिराणां हितश्रुतौ ॥ ४२ ॥
"
जायते क्षुद्रसत्त्वानामयशः पङ्कपातिनाम् । ऐहिकामुष्मिकानर्थसम्बन्धैकनिबन्धनम् ||४३|| विशेषकम् |
ये पुनः पुण्यकर्माणो, महेच्छाः स्वच्छबुद्धयः । परोपकारव्यापारस फली कृतजीविताः ॥ ४४ ॥
गुरूपदेशपीयूषपूर पावितमानसाः । वैभवे च भवे चास्मिन् भङ्गुरीभावभाविनः ॥ ४५ ॥ शुचौ यशसि धर्मे च, स्थैर्यबुद्धिविधायिनः । विनिर्जितारिषड्वर्गाः, स्वयमायतिदर्शिनः ॥ ४६ ॥ भवत्यद्भुतसत्त्वानां तेषां लोकोत्तरात्मनाम् । नृपव्यापार एवायमिहामुत्र च सिद्धये ॥४७॥ कलापकम् । येन लोकोत्तरः कोऽपि, धर्मस्तीर्थेश देशितः । स्वर्गापवर्गसाम्राज्यश्री स्वयंवरमण्डपः ॥ ४८ ॥
सुदुष्करतरः कामं, महासत्त्वेत रैर्नरैः । किमन्यत् तीर्थकुलक्ष्मी - कारणानां शिरोमणिः १ ॥ ४९ ॥
प्रभावनाभिधः सोऽपि नृपव्यापार - तेजसा । दुरितध्वान्तविध्वंसाद् भास्वरां श्रयति श्रियम् ॥ ५०॥
- धर्माभ्युदय महाअव्य ( सर्ग १, [ - सिंधी छैन अथभाषा
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
सो०
४
[ १२५
विशेषकम् ।"
३८ थी ५० )
अअशित ]