SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શ્રી જન સત્ય પ્રકાશ [१५ १४ सार्थः प्रार्यो न च न च बलं कापि कस्याप्यपेक्ष्यं, ___ भूयो भूयो गहनगहनो गाहनीयश्च पन्थाः । एकैकस्यापि च विचरतस्त्वत्प्रसादेन मार्ग, जीरापल्याः परपरिभवो नैव भूतो न भावी ॥ ५॥ ये त्वद्ध्यानोपगतमतायो दूरदेशेऽपि तेषां, स्वस्थानस्थः स्थगयसि रुजः प्राणिनां प्राणतोऽपि । नासम्भाव्यो भवति भवतो भावितोऽयं प्रभावः, सूरो दूरोऽपि हि न सहते लोकमध्येऽन्धकारम् ॥ ६ ॥ मुक्ता वैद्यैरपि बहुविधैरौषधैरप्यसाध्या, विध्याता ये चिरविरचितैर्नापि मन्त्रादियोगैः । तेऽप्यातङ्कागतभवभवन्नामधेयाविराम ध्यानादेवाम्बुन इव दवा नामनिर्नाम नेशुः ॥७॥ कासश्वासज्वरकरशिर:कुक्षिचक्षुर्विकाराः, शोषश्लेष्माक्षतमबलतावातपित्तप्रकोपाः । कण्डूकुष्टश्वयथुदवथुर्गुल्मुटुर्नामपामा, रक्षादक्षे त्वयि विदधति व्याधयो नैव बाधाम् ॥ ८ ॥ रोगा भोगा गहनदहनव्यालदुर्मन्त्रयोगा ध्याते तात त्वयि तनुमतां नो भवेयुः पुरोगाः । बाह्योऽप्येष श्रुतिपथगतः कस्य चित्ते विधत्ते, नैवाश्चर्य जगति महिमा तावकीनो नवीनः ॥९॥ यस्मिन्नन्योऽजनिषत सुरा निष्प्रभा निष्प्रभावाः, काले तस्मिन्नपि विलसति त्वत्प्रतापप्रभावः । यद्ग्रीष्मर्तुर्नयति सलिलोल्लासमस्तं समरतं, तस्मिन् काले कलयति किल प्रत्युताम्भोधिऋद्धिम् ॥१०॥ विश्वाधारामतरलतरत्तारतारामुदारा, मीश स्वीयां क्षिप मयि दृशं देव ते सेवकोऽस्मि । ॐ कुर्वाणे भवति भवति स्वार्थसिद्धिः समस्ता, तन्मां स्वाहाशनपतिनतोपेक्षितुं ते न युक्तम् ॥ ११॥ For Private And Personal Use Only
SR No.521651
Book TitleJain_Satyaprakash 1949 03
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1949
Total Pages28
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy