________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४८४]
શ્રી જૈન સત્ય પ્રકાશ
[१५७
॥ प्रशस्ति ॥ स्वस्ति श्रीसकलो लोकः सकलो यत्र वर्तते । सौराज्यराजितं भाति तत्पुरं मु(सु)रपत्तनम् तस्मिन् सौराष्ट्रदेशस्य मण्डने रोरखण्डने । श्रीचन्द्रप्रभविहारसनाथे देवपत्तने उपकेशवंशरत्नं रत्नलक्ष्मविचक्षणः । हावाख्यः समभूत् श्रीमान् वदान्यो व्यवहारिराट् तस्याजनि महेभ्यस्य भार्या हांसलदेवरा । दानशीलतपोभावभूषणा गतदूषणा तत्कुक्षिप्रभवाः पुत्रास्त्रयस्त्रैलोक्यमण्डनम् । साधुनाकरनामाह्वो द्वितीयः साधुसामल: साधुभीमस्तृतीयोऽथ भार्यास्तेषां क्रमादिमाः गांगी सिरियादेवी च भ्रमादेवी तृतीयका तत्कुक्षिपभिनीहंसाः क्रमादेतेऽङ्गजा गजाः । अर्थिदारिद्यपापद्वखण्डनाः कुलमण्डनाः । श्रीदत्त-हापी-श्रीवत्स-सिंघराट्-सोम-मूलजाः। षडेते भीमपुत्रा वे (वै) षट्सुदर्शनपोषकाः कुलेऽत्र दक्षो भुवि सामलाख्यो वाग्मी कवी राजसभाभिरामः । असंख्ययत्पुण्यविधानसंख्यां कर्तुं क्षमौ नैव सुरासुराख्यौ ॥ ९ ॥ तथा च-- श्रीअम्बिका. महादेव्या उज्जयन्ताचलोपरि । प्रासादः कारितः प्रौढः सामलेन सुभावतः हेमपौत्रलिकयुताः प्रौढाः सम्यक्त्वमोदकाः । लाभिताः शुद्धभावेन सर्वदेशे गृहे गृहे
॥ ११ ॥ सिद्धाचलोजयन्ताद्रितीर्थयात्रा अनेकश: । कृताः संघपतीभूय संघभक्तिस्त्वनेकधा
॥ १२ ॥ कल्याणप्रतिमा जैनी श्रीया देव्या सुलक्षणा । कारिता पूज्यते नित्यानन्तकल्याणदायिनी
॥ १३ ॥ एकादशांगसिद्धान्तसूत्रमाराधितं यया । इत्याधनेकसत्पुण्यगृहं सामलगेहिनी
॥ १४ ।। (युग्मम्)
For Private And Personal Use Only