________________
संस्कृतसाहित्ये जलविज्ञानश्रीः
सुषमा आर. कुलश्रेष्ठ
जलमाहात्म्यम् या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री
ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् । यामाहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः __ प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥
कविकुलगुरुः दीपशिखाकालिदासः स्वाभिनवाभिज्ञानशाकुन्तलाख्यस्य नाटकस्य नान्द्याम् अष्टमूर्ति शिवं स्तौति । महेशस्य अष्टासु मूर्तिषु या सर्वप्रथमरूपेणोल्लिखिता सास्ति स्रष्टुः आद्या सृष्टिः अर्थात् जलमयी मूर्तिः। कालिदासानुसारं ब्रह्मणः आद्या सृष्टि: जलमयी एवास्ति यथोक्तम्
सोभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः ।
__ अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥ जलपरिभाषा जलोत्पत्तिश्व
जलमस्मान् सर्वत: विद्यमानमस्ति महत्त्वपूर्णमेकं तत्त्वम् । पृथिव्यामस्यां पर्यावरणस्य महत्त्वपूर्ण घटकरूपमिदं जलं विना जीवनस्य सम्भावनापि नास्ति । वयं न केवलं स्नानवस्त्रप्रक्षालनजलपानभोजनपाकादिषु अस्माकं नित्यकृत्येषु जलनिर्भराः अपितु कृष्यर्थम् अन्येषामुद्योगानां कृतेऽपि भृशं जलनिर्भराः । वस्तुतः जलं जीवनाय अनिवार्यम् । सर्वेषां प्राणिनां कृते उपयोगिनः जलस्य कारणादेव धरायामस्यां प्राणिजीवनं सम्भवति । जलं विना वनस्पतीनां, वृक्षाणां, पशूनां, मनुष्याणाञ्च जीवनकल्पनापि अशक्या । जीवनार्थं जलमपरिहार्यम्
पृथिव्याः एको बृहद्भागः (२/३ भागः) जलनिमग्नोऽस्ति । न केवलमियती एव प्रत्युत पादपेषु, वनस्पतिषु प्राणिष्वपि च जलस्य बृहती मात्रा उपलभ्यते । यथा मानवशरीरे भारानुसारं प्रायः सप्ततिःप्रतिशतं जलं विद्यते । पादपेषु वनस्पतिषु प्रायः षष्टिःप्रतिशतं जन्तुषु च प्राय: अशीतिःप्रतिशतं जलं विद्यमानं भवति। जलेन इमे सर्वे शीतलतां धारयन्ति । जन्तवः सरोवराणां, स्रोतसां, स्रोतस्विनीनाञ्च जलं पिबन्ति। वृक्षाः (पादपाः) स्वपादैः मृद्भ्यःजलं गृह्णन्ति । वनस्पतीनामङ् कुरणाय जलं परमावश्यकम् । वनस्पतिषु जन्तुषु च प्रायशः सर्वे जीवित-प्रक्रमाः जलेनैव भवन्ति ।