________________
164
જિતેન્દ્ર બી. શાહ
SAMBODHI
गुडो हि कफहेतुः स्यान्नागरं पित्तकारणम् ।
द्वयात्मनि न दोषोऽस्ति गुडनागरभेषजे ॥६॥ निगदसिद्धोऽयम् ।
ननु नित्यानित्यभेदाभेदसत्त्वासत्त्वसामान्यविशेषाभिलाप्यानभिलाप्यात्मके तत्त्वे मन्यमाने दुर्धरविरोध- . गन्धविधुरता धुरन्धरतां धारयति । तथा हि-यदि भेदस्तीभेदः कथम् ? अभेदश्चेत्तर्हि भेदः कथं स्यादिति विरोधः ॥१॥
___ तथा यदि भेदस्याधिकरणं तीभेदस्य न भवेत्, अथाभेदस्य तर्हि भेदस्य न स्याच्छीतोष्णस्पर्शवत् । न हि यदेव धूपदहनादिकं शीतं तदेवोष्णमुपलभ्यते, तथाप्रतीतेरभावादिति वैयधिकरण्यम् ॥२॥
.. तथा येन रूपेण भेदस्तेनाभेदोऽपि, येनाभेदस्तेन भेदोऽपि स्यादिति व्यतिकरः, 'परस्परविषयगमनं. .. व्यतिकर' इति वचनात् ॥३॥
तथा येन रूपेण भेदस्तेनाभेदो ऽपि स्यादिति सङ्करः, 'सर्वेषां युगपत्प्राप्तिः सङ्कर' इति वचनात् ॥४॥
तथा येन रूपेण भेदस्तेनाभेदो येन चाभेदस्तेन भेदोऽभ्युपगन्तव्योऽन्यथा सर्वमनेकान्तात्मकमित्यस्य विरोधानुषङ्गात् । तथा च भेदाभेदावपि प्रत्येकं भेदाभेदात्मकौ स्याताम् । तत्रापि प्रत्येकं भेदाभेदत्वपरिकल्पनायामनवस्था स्यात् ॥५॥
तथा केन रूपेण भेदः केन चाभेद इति संशयः ॥६॥
तथा भेदरूपमभेदरूपं "वादृष्टं वस्तु नाभ्युपगम्यते । अदृष्टं च भेदाभेदात्मकं परिकल्प्यते, इति दृष्टहानिरदृष्टकल्पना स्यात् ॥७॥
तथा च परिकल्पितस्य वस्तुनोऽभाव एव युक्तः ॥८॥
किञ्च, किं नानावस्तुधर्मापेक्षया सर्वमनेकान्तात्मकं उत तन्निरपेक्षतया प्रत्येकं सर्वं वस्तु इति ?। प्रथमपक्षे सिद्धसाध्यता, द्वितीयपक्षे विरोधादिदोषः ॥९॥
किञ्च, किं क्रमेण सर्वमनेकान्तात्मकं अभ्युपगम्यते योगपद्येन वा ? प्रथमपक्षे सिद्धसाध्यता, द्वितीयपक्षे तु स एव दोष इति ॥१०॥
किञ्चानेकधर्मान् वस्तु किमेकेन स्वभावेन नानास्वभावैर्वा व्याप्नुयादिति, योकेन स्वभावेन तदा । तेषामेकत्वं वस्तुनो वा नानात्वं स्यादेकस्यैकत्र(?) प्रवेशादिति । अथ नानास्वभावैस्तर्हि तानपि नानास्वभावान् किमेकेन स्वभावेन व्याप्नुयात्रानास्वभावैर्वा ? यद्येकेन तदा सर्वधर्माणामेकत्वं वस्तुनो वा नानात्वं स्यात्, अथ नानास्वभावैस्तहि तानपि किमेकेन स्वभावेन नानास्वभावैर्व्याप्नुयादित्यादि सर्वं वक्तव्यमनवस्था च ॥११॥
___किञ्च, यदि सर्वं वस्तु अनेकान्तात्मकमभ्युपगम्यते, तर्हि जलादेरप्यनलादिरूपता, अनलादेर्वा जलादिरूपता भवेत्, तथा च जलाद्यर्थिनो जलादावनलाद्यर्थिनश्चानलादौ प्रवृत्तिर्न स्यात्, अन्योन्यविरुद्धस्यापि धर्मस्य सद्भावात् । को हि नाम विवक्षितार्थे विवक्षितार्थक्रियाकारिरूपमिवाऽ विविक्षितार्थकियाकारिरूपमुपलभमानो विवक्षितार्थक्रियार्थी तत्र प्रवर्तेत, प्रेक्षापूर्वकारी न चैवं विवक्षितार्थे विवक्षितार्थक्रियाकारिण्येव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org