________________
167
Vol. xxVI, 2003
चिन्तामणिपरीक्षा : चतुर्थो विमर्शः ___ अतएवोक्तमाकरप्रकाशे रुचिदत्तैः वस्तुतः तर्कस्य प्रमात्वेऽपि । निर्व्यापारतयैव संस्कारस्य न प्रमाणत्वमिति द्रष्टव्यमिति । न हि तर्कविना अनुमित्युत्पादः । यदुक्तं मणिकण्ठमित्रैः -
अनुमाननिदानस्य, व्याप्तिज्ञानस्य कारणम् ।
आदौ तर्कं निरूप्येह, पश्चादन्यन्निरूप्यते ॥ श्रीमदुपाध्याया अपि स्वरूपसतोरेव व्यभिचारशङ्काविरहानुकूलतर्क योर्व्याप्तिग्राहकत्वात् इत्याहुः । इति चेत् ? एवं तर्कस्य प्रमात्वसिद्धावपि । प्रकृते ब्राह्मणोऽयं ब्राह्मणजन्यत्वात् इत्यत्र यो यः ब्राह्मणजन्यः स ब्राह्मण इति अनियमात् आचाराऽस्खलितत्वेन सोपाधित्वात् च.। नन्वेवं पित्रोर्ब्राह्मण्यात् इत्यत्रापि तथैव व्यभिचारात् कथं ब्राह्मण्यानुमिति वाच्यं जातिप्रकारकत्वे अनुमित्युदयात् । तत्रापि तथात्वे साध्ये । वाक्येऽर्थाभावेऽपि अक्षरान्तरेणाऽपि व्यधिकरणस्य हेतोर्गमकत्वसिद्धिः । एवं व्यधिकरणोऽपि जलचन्द्रो नभश्चन्द्रय साधकः । कृत्तिकोदये वा शकटोदयस्य गमकः यद्वा उपरि सविताभूमावालोकात्' । पर्वतनिष्ठाग्नेधूमस्य देशान्तरप्राप्तौ तत्रत्यलोकानां वह्निप्रतिपत्तिः स्यात् । अथ तत्तद्व्यधिकरणहेतूनामपि प्रतिमोहादेव गमकत्वे क्रियमाणे महानसनिष्ठोऽपि धूमो भूधराधिकरणवह्निगमकोऽस्तु प्रतिमोहादेव तावद्देशावच्छेदेन वह्निधूमयोरेकाधिकरणत्वात् तथा चातिप्रसङ्ग इति, एवं वनस्था आम्राः फलिता उपवनाऽऽम्रफलित्वात्, इत्याद्यपि वेद्यं, किमधिकेनेति ।
इति श्रीमणिपरीक्षायां चतुर्थोविमर्शः
१. प्रामाण्यं गोर्न सवितुरनुमातुर्विरुद्धता । व्यभिचारधियस्तस्य, न्याये किं स्यात् प्रमाणता ॥१॥ अत्र उपरि सूर्यः
भूमावालोकात् । अत्र सद्धतावपि न प्राणाण्यं पक्षधर्माभावात् । अनुमातुर्विरुद्धता कोऽर्थः ? सत्प्रतिपक्षः हेत्वाभासः । विशेषेण अभिचारो यस्यां सा ईदृशी धीर्यस्य तस्य अभिचार: हिंसा ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org