SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ 162 જિતેન્દ્ર બી. શાહ SAMBODHI व्याप्तिज्ञानानां तत् तदनुमितिविशेष एव जनकत्वम् । न चैवं अनुमितित्वं आकस्मिकं । तद् विकारणा प्रयोज्यत्वम् अप्रामाणिकत्वं वा ? आये - इष्टापत्तेः, नित्यवृत्तिमनस्त्वादीनामिव कारणाऽप्रयोज्यत्वे अविरोधात् । न च कार्यमात्रवृत्तिजातेः कारणप्रयोज्यत्व नियमः । अप्रयोजकत्वात् द्वितीये तु अप्रसिद्धिः । अननुगतमतेरेव प्रमाणत्वसम्भवात् । ततो यद्वा प्रत्यक्षत्वस्य जातेनित्यवृत्ति वृत्तितया कार्यत्वानवच्छेदकत्वेऽनुगतमतेः प्रत्यक्षत्वजातिरेवमत्रापि अनुमितित्वं भवेदपि परं लक्षणानिर्णये व्याप्तिस्वरूपा निर्णय एव । तत एवानुमानप्रकाशे उपाधिप्रकरणेप्युक्तम् । स्वयं लक्षणकरणासामर्थ्य तद् व्यावर्त्तनाय तत्र विशेषणान्तरप्रक्षेपस्याऽनुचितत्वात् । यत्तु पुनः सूत्रितम् । न चैवं अननुगमो दोषाय कस्य व्याप्तिरिति अननुगतस्यैव लक्ष्यत्वात् इति तदपि विमर्शनीयम् । पूर्वपक्षे । ननु अनुमितिहेतुव्याप्तिज्ञाने का व्याप्तिः इत्येव पूर्वपक्षभूमित्वात् । यद्यपि अत्र बहुवक्तव्यं तथापि विस्तरभयाद् उपरम्यते । इति श्रीमणिपरीक्षायां द्वितीयो विमर्शः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520776
Book TitleSambodhi 2003 Vol 26
Original Sutra AuthorN/A
AuthorJitendra B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year2003
Total Pages184
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy