SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ 153 Vol. XXVI, 2003 चिन्तामणिपरीक्षा : प्रथमो विमर्शः वृत्तिमत् प्रमेयत्वमादायैव तत्रोक्तलक्षणसत्त्वात् वृत्तिमत्त्वभागस्य व्यभिचारावारकत्वात् प्रमेयत्वमात्रेणैव तत्र व्याप्तिनिरूपणम् । न च प्रमेयत्वमात्रमतिप्रसक्ततया न तन्निरूपकं इति वाच्यम्, व्यर्थविशेषणत्वरहितत्वे सति व्यभिचारिव्यावृत्तत्वमेव न तु अनतिप्रसक्तत्वमपि गौरवात् । न चात्र वृत्तिमत्प्रमेयत्वस्यैव तथात्वे तदवच्छिन्नस्यैव व्याप्यत्वं स्यात् 'न गगनादेरिति वाच्यम्, इष्टापत्तेरित्यादि रुचिदत्त रुचावपि केवलान्वयिसाध्ये । आकाशादेः साध्यासहवृत्तित्वकथनेन सामानाधिकरण्याभावसाधनं तदपि ततः सेवालजालावलम्बनप्रायम् । स्वयमेव शतशः केवलान्वयिनि साध्याऽभावप्रसिद्धेरिति भणनात् । [किञ्च व्याप्यव्यापकभावेन । अभावसामानाधिकरण्ये विचार्यमाणे आधाराधेयभावेन गगनस्य असामानाधिकरण्यं न द्रष्टव्यं अप्रयोजकत्वात्, तत् प्रयोजकत्वे तु अभावसामानाधिकरण्यसिद्धेः व्यतिरेकव्याप्त्या केवलान्वयित्व व्याघाताच्च ।] एवं केवलव्यतिरेकिण्यपि अव्याप्तमिदं लक्षणम् । तथाहि - लक्षणे हि तेन तादृशेन साध्येन तस्य हेतोः सामानाधिकरण्यं व्याप्तिरिति वचनम् । तत्तु केवलव्यतिरेकिणि साध्याभावसाधनाभावयोः सामानाधिकरण्याभावात् दूरमुक्तमिति । जीवच्छरीरं सात्मकं प्राणादिमत्त्वात् इत्यत्र अन्वयव्याप्तेरभावात् । ____ अथ केवलव्यतिरेकिणि व्यतिरेकसहचारेण अन्वयव्याप्तिरेव गृह्यते इति रुचिदत्तरुचिश्चेत् ? तत्रेदं विमर्शनीयम् - किं तेनैव प्रयोगेण अन्यप्रयोगेण वा ? तेनैव अन्वयसाधने केवलव्यतिरेकित्वसंज्ञानुपपत्तिः । प्राणादिमत्त्वं हेतुः सात्मकत्वसाधकं साध्याभावव्यापकीभूताभावप्रतियोगित्वात्, यदेवं तदेवं यथान्वयव्यतिरेकी हेतुरिति प्रयोगान्तरादन्वयसाधने परम्परायामतिप्रसङ्गात् । अतएव रुचिदत्तरुचिग्रन्थः अन्वयिलिङ्गेऽन्वयव्याप्तेः साक्षाद् वैशिष्ट्यं, व्यतिरेकिणि तु व्यतिरेकव्याप्तेस्तत्प्रतियोग्यभावप्रतियोगित्वरूपं परम्परावैशिष्ट्यं, तथा तदेव च तत्रानुमितिजनके लिङ्गपरामर्षे विषय इति न तज्जन्यानुमितावव्याप्तिरित्याहुः । पुनस्तत्रैव । व्यतिरेकिण्यपि अन्वयव्याप्तिरेव गृह्यते इति मतेन एतल्लक्षणाभिधानात् । यथा तु तन्मतं नायुक्तं तथाग्रे वक्ष्यते तृणारणिमणिन्यायेन अवच्छेदकग्रहं विनापि हेतुत्वग्रहसंभवात् । १. व्यतिरेकिणि प्रतियोग्यनुयोगित्वेन नियामकत्वं तेन अन्वयव्याप्तिमनुमाय व्याप्तिवैशिष्ट्यं आक्षेपाद् गम्यते । तथा प्रतियोग्यसमानाधिकरणेत्यादिकं । मणौ उत्तरपक्षलक्षणं केवलव्यतिरेकिणि अव्याप्तमपि बलादन्वीयते । धूमाभाववानयं वह्नयभावात् अत्र अन्वयव्यतिरेके गमकः तत्र तत्र धूमाभावाभावोऽर्थाद्धूमः यत्र यत्र वयाभावाभावोऽर्थाद्वह्निरेवं न अयोगोलके व्यभिचारात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520776
Book TitleSambodhi 2003 Vol 26
Original Sutra AuthorN/A
AuthorJitendra B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year2003
Total Pages184
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy