SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ नारायण म. कंसारा मध्यस्थस्योद्भावयितुरभावादेव नोद्भावनार्हम् । किञ्चिदुद्भाव्यमपि न । कथावसानायैकवाक्यांशयोमिथो व्याघातः प्रतिज्ञाविरोधो, यथा 'मे माता वन्ध्या' इत्यादावयोग्यतारूपं तत्त्वधीविरोधीत्युद्भाव्य एवावयवपर्यासोऽप्राप्तकालत्वं यथा 'धूमात् पर्वतो वह्निमान्' इति । असावनाकांक्षितत्वादेव न तत्त्वधियं जनयति ॥ 190 न्यूनमाकांक्षितानासक्तिरूपत्वादेव । अधिकं पुनरुक्तं चानाकांक्षितासत्तिरूपत्वादेव । लक्षणं तु, न्यूनत्वं स्वसिद्धान्तसिद्धावयवन्यूनता, अधिकं हेतूदाहरणाधिक्यम् । पुनरुक्तस्यानुवादं विना शब्दार्थयोः पुनर्वचनम् 'अननुभाषणं पञ्चधा तद्' इत्यादि । सर्वनाम्ना विपरीतानुवादेन वा एकदेशानुवादेन वा केवलदूषणोत्तरावेदनेन वा तत्रायथानुभाषणम् । अथाप्रतिसन्धानसमर्पकतया तत्त्वधीविरोध्येव लक्षणं त्वननुभाषणस्यानुभूय दूषणानभिधानम् । परिगृहीतसिद्धान्तविरुद्धाभ्युपगमेऽपसिद्धान्ते स्फुटं तत्त्वधीविरोधित्वम् । तथा च प्रतिज्ञानविरोधोऽप्राप्तकालं न्यूनमधिकं पुनरुक्तमयथानुभाषणमपसिद्धान्त इत्येतत् सप्तकमुद्भाव्यमपि न कथापर्यवसानक्षमम् ॥ यद्यपि हेत्ववयवत्वन्यूनतायां निर्णायकाभावात् तत्त्वधीविच्छेदे कथापर्यवसानमेव, तथाप्यवयवान्तरं न्यूनतायां न तथेत्याशयः हेत्वाभासनिरनुयोज्यानुयोगयोरेव कथावसानिकत्वमिति । निरनुयोज्यानुयोगः स्वदूषणेऽदूषणाभिधानं हेत्वाभासाश्च प्रागेव व्याख्याताः । एतदेवेदं गणनं क्षेपयुक्तमिति चेन्न, अस्य प्रवादमाश्रित्योपन्यासाद्, उपलक्षणत्वात् । तथा च तर्कभाषाकारस्यावधारणेन तात्पर्यमुन्नेयमिति दिग् ॥ प्रतिगोतमतो जम्बूः प्रतिवज्रस्वामिनश्च विबुधगुरोः । विनयवैराग्यविद्यादिभिरभवन् हीरविजयाख्याः ॥ १॥ कलिकालकुमतकश्मलप्रक्षालनवारिवाहसंकाशाः । श्रीमदकब्बरभूपतिबोधविधानेन विख्याताः ॥ २ ॥ तत्पादपद्ममधुपप्रतिमेन विनेयलेशेन । शुभ विजयाभिधशिशुना विहितमिदं वार्त्तिकं सुकरम् ||३|| विशिखरसरसेन्दु १६६५ मिते वर्षे हर्षेण विक्रमार्कनृपात् । समपूर्वसूरिकीर्तिप्रमदापाणिग्रहणसाधोः ||४|| सम्प्रति च विजयमानव्रतिजनचूडामणेः सुगुरुकरणे: । श्रीविजयसेनसूरेः पट्टोदयशैलगगनमणेः ||५|| श्रीविजयदेवसूरेरादेशात् तत्प्रसादसम्पत्तेः । श्रीपद्मपद्मसागरगणिभिः पण्डितशिरोरत्नैः ॥६॥ SAMBODHI संशोधितमिदमखिलं तथापि मान्द्यतः किमपि वितथम् । शोध्यं च मत्सरोज्झितमतिभिर्युपकारचेतोभिः ॥७॥ श्रीमदिलाग्राख्यनगरे गुरुपुष्यसंज्ञके योगे । अश्वयुजे सप्तम्यां जातं सम्पूर्णमिति भद्रम् ॥८॥ इति तर्कभाषावार्तिकं समाप्तम् ॥
SR No.520770
Book TitleSambodhi 1996 Vol 20
Original Sutra AuthorN/A
AuthorJitendra B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1996
Total Pages220
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy