________________
जयसिंह सिद्धराज का विरूपाक्ष मन्दिर (बिलपांक) का अभिलेख
ततश्च भक्त्या परमेश्वरस्य प्रासादमासादितशैलशोभं । स कारयामास विशालशंग खेलस्स्वलत्खेचरसुंदरीकं ॥२४॥ शातकुंभमयकुंभकेतनस्फीतकांतिकपिशीकृताकृ-। *ति । एष गैरिकगिरींद्रगौरवं व्याकरोति गिरिजागिरीशयोः ॥२५॥ अत्यंतसुभगै गैरत्र सिद्धेशसाधितैः । विरूपाक्षोऽपि देवोऽयं प्रसन्ननयन स्थितः ॥२६॥ समुद्रवसनां यावत् हे। *माद्रिमंडयत्ययं । तावन्नद्यादिदं वंद्यं श्रीविरूपाक्षमंदिरं ॥२७॥ एकाहनिष्पन्नमहाप्रबं(ब)धः श्रीसिद्धराजप्रतिपन्नवं(बं)धुः श्रीपालनामा कविचक्रवर्ती प्रशस्तिमेतामकरोत्प्रशस्तां ॥२८॥ यो रोजवल्लभापरनामा मुनिपुंगवो भुविख्यातः । श्रीजिनभद्राचार्यः साहित्यविचक्षणः सतां मुल्यः ॥२९[1] तेन श्रीसिद्धपतेन्निरोपतो व्यक्तशुद्धवर्णाद्या । गंगाधरात्प्रशस्तिदिजन्मना *लेखितेयमिति ॥३०॥ संवत् ११९८ आषाढ़ शु(सु)दि १ मंगलं महाश्रीः ॥1॥22