________________
महाकवि-कालिदास-विरचितं
उत्तने वा मलिनवसने सौम्य निक्षिप्य वीणां मद्गोत्राङ्क विरचितपदं गेयमुद्गातुकामा । तन्त्रीमाद्रा नयनसलिलै सारयित्वा कथंचि
द्भूयो भूयः स्वयमपि कृतां मूर्छनो विस्मरन्ता ।।९२।।
हे सौम्य । मलिनवसने रजोधूसराम्वरांके उच्छ(त्स)डगे वीणां निक्षिप्य स्थाप्य, गेयं गीत उदगातुकामा सती. मम प्रिया तवालेोके पतिष्यन्ति(ति)623 । कीदृशं गेय ? मगोत्रा624. मम गोत्रनाम अङ्क चिह्न यस्य तत् । पुनः कीदृशं गेय? विरचितपदं, विरचितानि पदानि शब्दा यस्य तत् । सा किं कुर्वती ? स्वयमपि कृता(तां) 25 मूछनां सा(स्व)राणां भूयो भूयो वारंवार मनसोऽस्वस्था(स्थस्वाच विस्मरन्ति(न्ती) विस्मारयन्ती । किं कृत्वा ? नयनसलिलैत्रजलैः आर्द्रा क्लिान्नां तन्त्रों वीणां कथंचित्महता कष्टेन सारयित्वा योजयित्वा 626 ॥१२॥
शेषान्मासान्विरहदिवसस्थापितस्यावधेर्वा विन्यस्यन्ती भुवि गणनया देहलीमुक्तपुष्पैः । सयोगं वा हृदयनिहितारम्भमास्वादयन्ती प्रायेणेते रमणविरहेष्वङ्गनानां विनोदाः ।।९३॥
हे सौम्य ! वा अथवा सा प्रिया चिरविरहावधेः शेषान् }वि(व) शिष्टान्मासान् देहलीमुक्तपुष्पर्गणनया संख्यया भुवि विन(न्य)स्यन्ती स्थापयन्ती । विरहदिवसस्थापितस्य आलोके निपतिष्यति । देहल्यां देवपूजार्थ मू(मु)क्तैः स्थापितैः पुष्पैर्या गणना तया । कोदृशस्यावधेः विरहदिवसस्थापितस्य । विरहदिवस(सः) वियोगदिनमारभ्य स्थापितो(तः), व्य(तस्य । वाऽथवा हृदयनिहितारम्भं मनोरथरचितं संयोग मदीयसमागमनम् । आस्वादयन्त्यनुभवन्ती । तवालोके यास्यति । कथमेतादृशान् व्यापारान् विधरो सेत्युक्ते आह-प्रायेण बाहुल्येन । सा} रमणविरहेषु दयितवियोगेषु । अङ्गनानां विरह(हि)णी स्त्रीणाम् । एते वर्णितस्वरूपा विमो(नो)दा व्यापारा भवन्ति ॥१३॥
सव्यापारामहनि न तथा पीडयेद्विप्रयोगः शके रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते । मत्संदेशैः सुखयितुमलं पश्य साध्वी निशीथे तामुन्निद्रामवनिशयनां सौधवातायनस्थः ॥९४॥
( 'पीडयेन्मद्वियोगः' इति टीकायां दृश्यते )
हे बन्धो ! अहमेव शङके श(सं)भावयेत} । भवतः सखी मत्पत्नी मवियोगो मम विरहः अहनि दिने [स]ज्यापारा,6 27 चित्रादिव्यापारयुतां तथा न पीडयेत् यथा रात्रौ निर्विमो(नो)दां तां मद्वियोगो दुःखयेत् । अत एव रात्री गुरुतरशुकं(चं) गुरुतरा शुक् शोको
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org