SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ दानादिप्रकरणम् एवंविधस्याप्यबुधस्य वाक्यं सिद्धान्तबाह्यं बहुबाधकं यत् । दृढाइदं श्रद्दधते कदर्याः पापे रमन्ते मतयः सुखेन ॥६३॥ नामेयादिभिरन्यजन्मनि मुनेव्यस्य लक्षस्त्रिभिः तैलाभ्यञ्जनतश्चलत्कृमिकुलं कुष्ठाकुलस्याकुलम् । सञ्चार्यान्यकलेवरे वरतरो गोशीर्षलेपः कृतो भक्त्यावेशवशादसौ शिवकरी गुर्वी चिकित्सा कृता ॥६४॥ ततस्ततं सुखं भुक्त्वा निरन्तरमनुत्त[६८-१]रम् । लेभे शिवमहो ! साधुभक्तिः कल्याणकारिणी ॥६५।' वहिप्लुष्टं कौञ्चिकश्चोज्जयिन्यां श्राद्धः साधु साधुतैलादिपाकैः । चित्राकारैश्चारुभिश्चोपचारैः कृत्वा कल्पं किं न कल्याणमाप ॥६६॥ श्रद्धालुः किं श्राविका न श्रुता सा __ श्रीसिद्धान्ते विश्रुता सुश्रुतानाम् । नानारूपैरौषधैः संस्कृतान्नं ... दत्वा साधु याऽर्शसं प्राचिकित्सत् ॥६७॥ [६.८-२]भूयांसोऽन्येऽपि कथ्यन्ते पुण्यभाजो जिनागमे । कृत्वा कृत्यानि साधूनां सम्प्राप्ताः सम्पदं पराम् ॥६८॥ ग्रहीतुं नाम केनापि भागधेयैः परैः परम् । साधूनां प्राप्यते दातुं भक्त्या भक्तादि किं पुनः ॥६९॥ यस्यान्नपानैः सन्तुष्टाः साधवः साधयन्त्यमी । स्वाध्यायादिक्रियां साध्वी तस्य पुण्यं तदुद्भवम् ॥७॥ ब्रषेऽथ व्याधिबाधायामध्या[६९-१]हृत्य विधीयते । साधनामौषधान्नादि शेषकाले तु दुष्यति ॥७॥ किं व्याधिबाधाः साधूनां गौरव्या यदि वा गुणाः । गुणाश्चेद् भक्तपानादि दातव्यं व्याधिना विना ॥७२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy